________________
विंशतिर्विशिकाः ] पञ्चमी बीजादिविंशिका
[ ३१ ततस्तस्मात् कारणात् फलं पुरुषार्थसिद्धिरूपम् उभयजमपि न केवलं पुरुषकारजन्यं परं देवपुरुषकारद्वयजन्यं तथापि पुरुषार्थप्राधान्याद् व्यवहारनयाभिप्रायेण भण्यते कथ्यते खलुरवधारणे पुरुषकारात्-पुरुषव्यापारादेवेति ॥११॥ किञ्च
एएण मीसपरिणामिए उ जं तम्मि तं च दुगजणं।
दिव्वाउ नवरि भण्णइ, निच्छयओ उभयजं सव्वं ॥१२॥ अक्षरगमनिका-एतेन यद् मिश्रपरिणामितेऽपि तस्मिन् तद् द्विकजन्यं तथापि भण्यते केवलं दैवात्, निश्चयत उभयजं सर्वम् ।।१२।।
एतेन अनन्तरोक्तेन, तथाहि-यथा यथा देवेनाक्षिप्तस्तथा तथा पुरुषकारो भवति, एवमेव यथा यथा पुरुषकारेणाक्षिप्तं तथा तथा दैवं भवतीति तत्त्वेन यद् यस्मात् कारणाद् मित्रपरिणामिते देवपुरुषकारोभयोपढौकित एव तुरवधारणे तस्मिन् फले, यत्तदोर्नित्यसम्बन्धात् तस्मात् तत् फलं चोऽवधारणे बिकजन्यं दैवपुरुषकारोभयजमेव तथापि स्वल्पपुरुषव्यापाराद् व्यवहारनयाभिप्रायेण भण्यते कथ्यते नवरि प्राकृतत्वादवधारणे दैवात् पूर्वकृतकर्मसकाशादेव। निश्चयतः परमार्थत उभयजं दैवपुरुषाकारद्वयजन्यं सर्वं निखिलं फलरूपम् । अयं भावः-दैवपुरुषकारौ द्वावप्येतौ फलहेतुतया प्रतिपन्नप्रधानोपसर्जनभावौ कार्यकरणक्षमौ सम्पद्येतेऽत एव परस्परसव्यपेक्षौ बोद्धव्याविति ।।१२।। अनन्तरोक्तानभ्युपगमे यत् स्यात्तदाह
इहराऽणक्खित्तो सो होइ त्ति अहेउओ निओएणं।
इत्तो तदपरिणामो किंचि तम्मत्तज्जं न तया॥१३॥ अक्षरगमनिका-इतरथाऽनाक्षिप्तः स भवतीत्यहेतुको नियोगेन, इतस्तदपरिणामस्तदा, परं न किञ्चित्तन्मात्रजम् ।।१३।।
टीका-इतरथा फलस्योभयजन्यत्वानभ्युपगमे यत्स्यात्तदाह-अनाक्षिप्तः दैवेनानाक्षिप्त स पुरुषार्थो भवति जायते इति हेतोः अहेतुको निष्कारणः स पुरुषार्थो नियोगेनावश्यंतयाऽऽपद्येत। किञ्च-इतः अस्माद् दैवेनानाक्षिप्तात् पुरुषकाराद् यदि किञ्चित्फलविशेषो जायेत तदा तर्हि स तदपरिणामो दैवाऽजन्यः स्यात् । परं न चैवं भवतीत्याह-न नैव किञ्चित् किमपि फलं तन्मात्रजं पुरुषकारमात्रजन्यं भवतीति ।।१३।। साम्प्रतं दैवपुरुषकारयोः पारमार्थिकं स्वरूपं निरूपयन्नाह
पुवकयं कम्मं चिय चित्तिविवागमिह भन्नई दिव्यो।
कालाइएहिं तप्पायणं तु तह पुरिसगारु ति॥१४॥ अक्षरगमनिका पूर्वकृतं कर्मैव चित्रविपाकमिह भण्यते दैवम्, कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति ॥१४॥
टीका-पूर्वकृतं प्राग्विहितं कर्मैव क्रियारूपमेव चित्रविपाकं विविधफललाभम् इह दैवपुरुषकारस्वरूपविचारे भण्यते कथ्यते तीर्थकरगणधरैर्दैवम् भाग्यम्। कालादिकैः कालद्रव्यक्षेत्रादिभिस्तत्पाचनं दैवस्य फलोपधानमेव तुरवधारणे तथा समुच्चये पुरुषकारः पुरुषव्यापार इतिः निर्देशे भण्यत इति ।।१४।। एवं दैवपुरुषकारयोः स्वरूपं निश्चयत उक्तम् । अधुना व्यवहारतः स्वरूपं निरूपयन् प्रकृते च योजयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org