________________
२८ ] पञ्चमी बीजादिविंशिका
[विंशतिर्विशिकाः बीजं विमस्स णेयं दणं एयकारिणो जीवे।।
बहुमाणसंगयाए सुद्धपसंसाई करणिछा ॥२॥ अक्षरगमनिका बीजमप्यस्य ज्ञेयं दृष्ट्वैतत्कारिणो जीवान् बहुमानसंगतया शुद्धप्रशंसया करणेच्छा ॥२॥
टीका-न धर्ममात्रं बीजमपि मूलकारणमपि अस्य शुद्धधर्मस्य ज्ञेयं बोद्धव्यम् करणेच्छेति संबन्धः, दृष्ट्वा विलोक्य एतत्कारिणो दानादिधर्मानुष्ठानकर्तृन् जीवान् धर्मिसत्त्वान् बहुमानसंगतया पूर्वोक्तस्वरूपबहुमानसमन्वितया शुद्धप्रशंसया निर्व्याजश्लाघया यथा-अहो सुलब्धजन्मान एते यदित्थं मुक्तहस्ता दानं वितरन्ति, वयं पुनरधन्यानामधन्या धनाकाङ्क्षया केवलं क्लेशभाज इदृशया श्लाघया करणभूतया करणेच्छा दानादिधर्मानुष्ठानकरणस्पृहा । धर्मबीजानि चैवं योगदृष्टिसमुच्चये दृश्यन्ते
जिनेषु कुशलं चित्तं, तन्नमस्कार एव च। प्रणामादि च संशुद्धं, योगबीजमनुत्तमम् ।।१।। आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु। वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ।।२।। भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि ।।३।। इत्यादीनि ।।२।। अथास्यैव धर्मकल्पवृक्षस्याङ्करकाष्ठ आह
तीए चेवऽणुबंधो अकलंको अंकुरो इहं नेओ।
कट्ठ पुण विनेया तदुवायनेसणा चित्ता ॥३॥ अक्षरगमनिका-तस्या एवानुबन्धः अकलङ्कः अङ्कुर इह ज्ञेयः । काष्ठं पुनर्विज्ञेया तदुपायान्वेषणा चित्रा ॥३॥
टीका-तस्या एव दानादिधर्मकरणेच्छाया एव अनुबन्यः अनुवर्तनम् अकलङ्गः अनवद्यः अङ्कुरः प्ररोह इह धर्मबीजादिविचारे ज्ञेयो बोद्धव्यः। काष्ठं स्कन्धः पुनः समुच्चये विज्ञेया समवसेया तदुपायान्वेषणा धर्मसाधनभूतसद्गुर्वादिगवेषणा चित्रा बहुविधेति ।।३॥ साम्प्रतं धर्मसुरद्रोः पत्रादीन्याह
पवित्ती य तहा चित्ता पत्ताइसरिसिगा होइ।
तस्संपत्ती पुर्फ गुरुसंजोगाइरूवं तु॥४॥ अक्षरगमनिका तेषु प्रवृत्तिश्च तथा चित्रा पत्रादिसदृशिका भवति। तत्सम्पत्तिः पुष्पं गुरुसंयोगादिरूपं तु ||४||
टीका-तेषु धर्मोपायगवेषणारूपेषु प्रवृत्तिः प्रवर्तनं चः समुच्चये तथाचित्रा क्षयोपशमवैचित्र्याद् विविधप्रकारा पत्रादिसदृशिका दलस्तबकादितुल्या भवति जायते। तत्सम्पत्तिः धर्मोपायप्राप्तिः पुष्पं कुसुमं गुरुसंयोगादिरूपं भवकोटिदुर्लभसद्गुरुसंयोगः, आदिपदात् तद्गतगुणबहुमानान्वितवन्दनवैयावृत्त्यादिलक्षणमेव विज्ञेयमिति शेषस्तुरवधारणे ।।४।। अधुना धर्मकल्पशाखिफलमाह
तत्तो सुदेसणाईहिं होइ जा भावधम्मसंपत्ती। तं फलमिह विनेयं परमफलपसाहगं नियमा॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org