SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] पञ्चमी बीजादिविंशिका [ २७ टीका - अचरमपरिवर्तेषु द्विचरमादिपुद्गलपरावर्तेषु कालः समयावलिकादिलक्षणो भवबालकालो भवस्य यदि वा मञ्चाः क्रोशन्तीति न्यायाद् भवस्थजीवस्य कथम्भूतस्य ? बालः अज्ञः अव्यक्तवया वा तस्य कालो बालकाल आत्मानं प्रकृत्यसुन्दरास्थिरविषयरागादिजन्यकर्मरजोभिर्गुण्डनाद् धर्मपुरुषार्थवैकल्याच्च भणितः कथितस्तीर्थकरगणधरादिभिः । चरमः पश्चिमपुद्गलपरावर्तस्तुर्विशेषे धर्मयौवनकालो धर्मस्य सम्यग्दर्शनादिरूपस्य यदि वा धर्मधर्मिणोः कथञ्चिदभेदाद् धर्मिसत्त्वस्य, यूनो भावो यौवनं तस्य कालो यौवनकालः पुरुषार्थकालो बालधूलिक्रीडातुल्यनिखिलभवचेष्टाजुगुप्सया मुक्तिमहिला मिलनमनोरथतः सम्यग्दर्शनादिविषये पुरुषार्थकरणाद् भणित इत्यनुवृत्तेः । ननु चरमपुद्गलपरावर्ते वर्तमानानां सर्वसत्त्वानां धर्मयौवनकालस्तुल्य उतान्यथापीत्याशङ्कायामाह तथाचित्रभेदः अपुनर्बन्धकसम्यग्दर्शनदेशसर्वविरत्यादिभेदाद् बहुविधः। तथोत्कर्षप्राप्तयौवनकालस्तु क्षपकश्रेण्यां ज्ञेय इतिः समाप्तौ || १६ || प्रस्तुतविंशिकानिष्कर्षमाह एयम्मि धम्मरागो जायइ भव्वस्स तस्सभावाओ । इतो य कीरमाणो होइ इमो हंत सुट्ट्ट त्ति ॥२०॥ इति चरमपरिवर्तविंशिका चतुर्थी ॥ ४ ॥ अक्षरगमनिका — एतस्मिन् धर्मरागो जायते भव्यस्य तत्स्वभावात् । इतश्च क्रियमाणो भवत्ययं हन्त सुष्विति ॥ २०॥ टीका — एतस्मिन् चरमपरिवर्ते धर्मरागो दयादानादिधर्मस्पृहारूपो जायते प्रादुर्भवति भव्यस्य उक्तस्वरूपस्य तत्स्वभावाद् भव्यसत्त्वप्रकृतेः । इतो धर्मरागात् चो विशेषे क्रियमाणः अनुष्ठीयमानो भवति जायते अयं धर्मो हन्त हर्षे सुष्ठु शोभन इतिः समाप्तौ । 'सुद्ध त्ति' पाठान्तरमाश्रित्य त्रिधा शुद्धः अनवद्यो जायत इति ॥ २०॥ पञ्चमी बीजादिविंशिका अनन्तरविंशिकायां त्रिधा शुद्धधर्मश्चरमपरिवर्ते प्रादुर्भवतीत्युक्तम् । स च धर्मः कल्पवृक्ष इव सर्वाभीष्टदायी बीजादिक्रमेण जायत इत्यत्रोच्यते बीजाइकमेण पुणो जायs एसुत्थ भव्वसत्ताणं । नियमा, ण अन्नहा वि हु इट्ठफलो कप्परुक्खु व्व ॥१॥ अक्षरगमनिका —— बीजादिक्रमेण पुनर्जायते एषोऽत्र भव्यसत्त्वानां नियमात् कल्पवृक्ष इव इष्टफलः खलु नान्यथापि ॥ १ ॥ टीका — बीजादिक्रमेणैव बीजाङ्कुरादिपरम्परयैव पुनरवधारणे जायते प्रादुर्भवति एष शुद्धधर्मः अत्र चरमपरावर्ते भव्यसत्त्वानां मुक्तिगमनयोग्यजीवानां नियमाद् अवश्यंतया कल्पवृक्षः सुरद्रुम इव सादृश्ये इष्टफलः सर्वाभीष्टदाय्येव खलुरवधारणे । नान्यथापि बीजादिक्रमविरहे कुतश्चिन्निमित्तात् प्राप्तोऽपि धर्मो न सिद्धिदायी भवतीति ॥ १ ॥ अथ धर्मकल्पतरुबीजादीन्निरूपयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy