SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३४ ] विंशी सिद्धसुखविंशिका [ विंशतिर्विंशिकाः सौख्यस्वभावो भावो कथं भवेत् ? ||१६|| टीका-एवमेव अनन्तरोक्तनीत्यैव सिद्धानां सुखस्य लवः लेशः कण इति यावत् प्रदर्शितः, सम्पूर्णस्य तस्य वचनाऽगोचरत्वात्, यदागमः-सव्वे सरा नियटृति तक्का जत्थ न विजइ, मई तत्थ न गाहिआ। आचाराङ्ग श्रु. स्क. १. अ. ५. उ. ६. सू. १७१. इतरथा सिद्धभगवतां वचनातीतसुखाऽनभ्युपगमे न नैव जातु कदाचित् संज्ञा व्यपदेशः 'अन्नुन्नमणाबाहं चिट्ठति सुही सुहं पत्ता' इत्यादिरूपा तदन्तरं तत् सुखं तदन्तरं सुखं विना व्यवहारपथम् उपैति प्राप्नोति, नैवोपेयादिति भावः, उपैति च तस्मात् सिद्धानां तथा सौख्यमभ्युपगन्तव्यम्। किञ्च-सिद्धभगवतामनाबाधसुखाऽनभ्युपगमे एकैकस्मिन् पृथक् पृथक् सिद्धभगवति सः अनन्तरोक्त सौख्यस्वभावः सौख्यं सुखं स्वभावो यस्य स भावः क्षायिकः कथं कया रीत्या भवेद् जायेत? नैव भवेदिति भावः। अस्ति च स सौख्यस्वभावस्तस्मात् सिद्धसुखमभ्युपगन्तव्यम् । क्वचिद् 'लवो' त्ति स्थाने 'भवो' त्ति पाठस्तमाश्रित्य भवः संसारो मत्स्यगलागलन्यायेन परस्परं व्याबाधाबाधितत्वाद् जन्मजरामरणरोगशोकादिव्याकुलत्वाच्च दुःखरूप एव, सिद्धिस्तु इतरथा एकान्तसुखरूपा । शेषः पूर्ववदिति ||१६|| उपसंहरन्नाह - तम्हा तेसि सरूवं सहावणिययं जहा उण स मुत्ती। परमसुहाइसहावं नेयं एगंतभवरहियं ॥२०॥ इति सिद्धसुखविंशिका विंशतितमी समाप्ता ।।२०।। इति श्रीविंशतिविंशिकाप्रकरणं समाप्तम् ।। अक्षरगमनिका-यथा सा पुनर्मुक्तिस्तस्मात्तेषामेकान्तभवरहितं परमसुखादिस्वभावं स्वरूपं स्वभावनियतं ज्ञेयम् ।।२०।। टीका-यस्माद् यथा यद्वत् सा पुनः निःशेषशुद्धधर्मासेवनफला तु मुक्तिः सिद्धिः कर्मोदयजन्य समस्तद्वन्द्वनिवर्तनादाविर्भूतजीवशुद्धस्वभावाच्च स्वभावनियता तस्मात् कारणात् तथैव तेषां सिद्धपरमात्मनाम्, एकान्तभवरहितम् अत्यन्तजन्मादिवियुक्तं परमसुखादिस्वभावं निरतिशयाऽनन्तसुखज्ञानादिलक्षणानन्तचतुष्टयाऽऽत्मकं स्वरूपं स्वाभाविक रूपं स्वभावनियतं सांसिद्धिकधर्मसंस्थितं ज्ञेयं बोद्धव्यम्। विशेषार्थिना तु श्रीमदाचाराङ्गसूत्रं श्री सिद्धप्राभृतप्रकरणं श्री पञ्चसूत्रगतपञ्चमसूत्रं च निरूपणीयमिति ।।२०॥ मूलग्रन्थकाराऽऽशीर्वचनम् - काऊण पगरणमिणं जं कुसलमुवज्जियं मए तेण। भव्वा भवविरहत्थं लहंतु जिणसासणे बोहिं॥ कृतिः सिताम्बराचार्यहरिभद्रसूरेधर्मतो याकिनीमहत्तरासूनोः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy