________________
१२४ ] एकोनविंशी सिद्धविभक्तिविंशिका
[विंशतिर्विंशिकाः एकेन कालसमयेनोत्कृष्टतः स्त्रीणां विंशतिरिति सिद्धसङ्ख्याऽभिधानतश्च सिद्धानां मुक्तानां सङ्ख्या गणना तस्या अभिधानतः कथनाच्च अविरोधः श्रीजिनागमेन सह विरोधाभावो ज्ञातव्यो बोद्धव्यो भवति युज्यते । यदागमः-अट्ठसयं पुरिसाणं, वीसं इत्थीण दस णपुंसाणं । ओहेण एक्कसमए, पुरिसाण य होइ सट्ठाणे ।। ४६॥ सिद्धप्राभृतः ॥७॥ ततः किमित्याह
अणियट्टिबायरो सो सेढिं नियमेणमिह समाणेइ।
तीए य केवलं केवले य जम्मक्खए सिद्धी ॥८॥ अक्षरगमनिका-अनिवृत्तिबादरः स इह नियमेन श्रेणिं समाप्नोति तस्यां च केवलं केवलं च जन्मक्षये सिद्धिः ।।८|
टीका-अनन्तरोक्तनीत्या स्त्रीप्रमुखाणां नवगुणस्थानकविधानात्तदन्तर्गतनवमगुणस्थानके वर्तमानस्तात्स्थ्यात्तव्यपदेश इति अनिवृत्तिबादरः स स्त्रीक्षपकजीवोऽपि इह सिद्धिविचारे नियमेन नियोगेन श्रेणिं क्षपकश्रेणिं समाप्नोति निष्ठापयति। तस्यां च समाप्तायां च श्रेण्यां केवलं केवलज्ञानं केवले च केवलज्ञाने च प्रादुर्भूते सति जन्मक्षये जन्मनिमित्ताऽऽयुष्ककर्मक्षये सति यदि वा जन्म भवस्तदुपग्राहिकर्मक्षये सति सिद्धिः मुक्तिः स्त्रीणामपीति ||८॥ ननु पुंवेदाऽऽरूढस्यैवाऽनिवृत्तिबादरगुणस्थानके बध्यमाने पुंवेदे स्त्रीवेदसङ्क्रमो भवति, न तु स्त्रीवेदारूढस्य तथेत्याशङ्कय परिहरति
पुरिसस्स वेयसंकमभावेणं इत्थ गमणिगाऽजुत्ता।
इत्थीण वि तब्भावो होइ तया सिद्धिभावाओ॥६॥ अक्षरगमनिका-अत्र पुरुषस्य वेदसङ्क्रमभावेन गमनिकाऽयुक्ता स्त्रीणामपि सिद्धिभावात् तद्भावस्तदा भवति ॥६॥
टीका-ननु अत्र क्षपकश्रेण्यां पुरुषस्य पुंवेदाऽऽरूढस्यैव वेदसङ्क्रमभावेन वेदस्य स्त्रीवेदस्य बध्यमाने पुरुषवेदे सङ्क्रमभावेन सङ्क्रमभवनात् सिद्धिर्भवति, स्त्रीवेदाऽऽरूढस्य तु न तथेति चेत्, न, एवं गमनिका व्याख्या अयुक्ता युक्तिविकला यतो न केवलं पुरुषस्य स्त्रीणामपि स्त्रीवेदाऽऽरूढाणामपि सिद्धिभावाद् मुक्तिभवनात् तद्भावः बध्यमाने पुरुषवेदे स्त्रीवेदसङ्क्रमलक्षणो भवति जायते तदा क्षपकश्रेण्यामिति यत्किञ्चिदेतदिति ||| किञ्च
लिंगमिह भावलिंग पहाणमियरं तु होइ देहस्य।
सिद्धी पुण जीवस्सा तम्हा एयं न किंचिदिह ॥१०॥ अक्षरगमनिका—इह भावलिङ्गं प्रधानमितरत्तु लिङ्गं देहस्य भवति, सिद्धिः पुनर्जीवस्य तस्मादेतन्न किञ्चिदिह ||१०||
टीका-इह सिद्धिविचारे भावलिङ्गं सम्यग्दर्शनज्ञानचारित्रलक्षणं मुक्तिप्रदत्वात् प्रधान मुख्यम् इतरतु शरीरनिवृत्तिमाश्रित्य पुरुषत्वस्त्रीत्वादिलक्षणं तुशब्दोऽवधारणे भिन्नक्रमश्च लिङ्गं द्रव्यलिङ्गं देहस्य शरीरस्यैव भवति जायते। सिद्धिः पुनः मुक्तिस्तु जीवस्याऽऽत्मनो भवति, न तु जडदेहस्य । तस्माद् युक्तिविकलत्वाद् एतद् द्रव्यलिङ्गं यदि वा स्त्रीत्वे सति न मुक्तिरिति कथनं न नैव किञ्चित् प्रमाणम् इह सिद्धिविचार इति ।।१०।। स्यादेतत्, सप्तमनरकगमनप्रतिषेधो यथाऽधोगमने तथोर्ध्वगमनेऽपि सिद्धिप्रतिषेधो भवतु तासामिति चेन्न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org