SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विंशिकाः ] एकोनविंशी सिद्धविभक्तिविंशिका [ १२३ कपिलप्रभृतयो ये सिद्धास्ते तत्सिद्धाः स्वयंबुद्धसिद्धा इति पञ्चमो भेदः । एवम् अनन्तरोक्तनीत्या प्रतीत्य एकं किञ्चिद् वृषभादिकमनित्यादिभावनाकारणं वस्तु बुद्धाः परमार्थमवगता इति प्रत्येकबुद्धा अपि करकण्डादयो ये सिद्धास्ते प्रत्येकबुद्धसिद्धा ज्ञेया इति षष्ठो भेदः ।।३।। एवम् उक्तरीत्यैव बुद्धा आचास्तैिर्बोधिता सन्तो येऽनेके सिद्धास्ते बुद्धबोधिता अपीति सप्तमो भेदः। भावप्रधाननिर्देशात् स्त्रीत्वे सति ये सिद्धास्ते स्त्रीलिङ्गसिद्धाश्चन्दनबालाप्रभृतय इत्यष्टमो भेदः । एवमेव पुरुषत्वे सति ये सिद्धास्ते गौतमादयः पुरुषसिद्धा इति नवमो भेदः। तथा नपुंसकत्वे सति ये सिद्धास्ते गाङ्गेयप्रमुखा नपुंसकसिद्धाश्चेति दशमो भेदः । इदं तु ध्येयम्-स्त्रीत्वादिकमत्र शरीरनिवृत्तिमाश्रित्य ज्ञेयं वेदे सति मुक्त्यभावात् नेपथ्यस्य चाऽप्रामाण्यादिति । एवं पूर्ववत् स्वलिङ्गृहिलिङ्गाऽन्यलिसिद्धाः स्वलिले रजोहरणादिलक्षणे व्यवस्थिताः सन्तो ये ऋषभसेनप्रमुखाः सिद्धास्ते स्वलिङ्गसिद्धा इत्येकादशो भेदः, तथा गृहिणो गृहस्थाः सन्तो ये भरतादयः सिद्धास्ते गृहिलिङ्गसिद्धा इति द्वादशो भेदः तथा अन्यलिङ्गे परिव्राजकादिसत्के वल्कलकाषायादिरूपे ये वल्कलचीर्यादयः सिद्धास्ते अन्यलिङसिद्धा मणितव्या बोद्धव्या इति त्रयोदशो भेदः ॥४॥ तथा समच्चये एकानेकाश्च एके अनेके च तथाहि-तदेकसमये तस्य सिद्धिगमनस्यैकस्मिन समये एकका एव सन्तो ये जम्ब्वादयो भ सिद्धास्ते तत्सिद्धा एकसिद्धा इति चतुर्दशो भेदः, तथैकस्मिन् समये ये अनेके सन्तः श्रीऋषभादयः सिद्धास्ते अनेकसिद्धा इति पञ्चदशो भेदः । ननु क्षपकश्रेणिफलभूतैर्वीतरागत्वसर्वज्ञत्वादिगुणैस्तुल्याः सन्तः सर्वे सिद्धाः श्रूयन्ते तर्हि किमिति भेदप्रपञ्चः ?-इति चेद्,-सत्यम्, श्रेणिकेवलिभावे श्रेणिः क्षपकश्रेणिस्तत्फलं केवलिभावः केवलज्ञानं सर्वज्ञत्वादीति यावत् ततः सिद्धिः मुक्तिप्राप्तिः सर्वेषां तथापि एते तु अनन्तरोक्ताः पञ्चदश भेदाः पुनः भवभेदा भवं छाद्मस्थ्यमाश्रित्य भेदाः प्रकारा विशेषपरिज्ञानार्थं प्रदर्शिता इति बोद्धव्यम् ।।५।। स्यादेतत्, स्त्रीमुक्तिस्तु कैश्चित् स्वयूथ्यैर्नेष्यते तत्कथं स्त्रीसिद्धभेदः सङ्गच्छेत? उच्यते पडिबंधगा इत्थं सेढीए हुति चरमदेहस्स य थीलींगादीया वि हु भावा समयाविरोहाओ॥६॥ अक्षरगमनिका—चरमदेहस्याऽत्र श्रेण्या स्त्रीलिङ्कादिका अपि भावा न खलु प्रतिबन्धकाः समयाऽविरोधात् ।।६।। टीका-चरमदेहस्य चरमः पर्यन्तवर्ती देहः शरीरं यस्य स तथा तस्य सत्त्वस्य तद्भवमुक्तिगामिन इत्यर्थः, अत्र सिद्धिगमनविचारे श्रेण्यांप्रस्तावात् क्षपकश्रेण्याम् आस्तां दृढप्रहार्यादीनामिव क्रूरभावाः स्त्रीलिङ्गादिका अपि स्त्रीलिङ्गनपुंसकलिङ्गादिका अपि भावाः पूर्वोपार्जिततथाविधकर्मोदयसम्पाद्या न नैव हु प्राकृतत्वादवधारणे प्रतिबन्धकाः प्रतिरोधका भवन्ति। अत्र हेतुमाह-समयाऽविरोधात् श्रीजिनागमाऽविरोधादिति ॥६॥ समयाऽविरोधमेव भावयति नवगुणठाणविहाणा इत्थीपमुहाण होइ अविरोहो। समएण सिद्धसंखाभिहाणओ चेव नायब्वा॥७॥ अक्षरगमनिका-स्त्रीप्रमुखाणां नवगुणस्थानविधानात् समयेन सिद्धसङ्ख्याऽभिधानतश्चाऽविरोधो ज्ञातव्यो भवति ॥७॥ टीका-स्त्रीप्रमुखाणां स्त्रीनपुंसकप्रभृतीनां नवगुणस्थानविधानाद् नवानां प्रमत्तयतिसत्कषष्ठगुणस्थानप्रभृत्ययोगिकेवलिसम्बन्धिचतुर्दशगुणस्थानपर्यन्तानां गुणस्थानानां विधानाद् निरूपणात् तीर्थकरगणधरैः, समयेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy