SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ answomaanawinamainamainanimoonam विंशतिर्विशिकाः ] अष्टादशी केवलज्ञानविंशिका [११६ सूर्यादिप्रकाशसंयोगाद् भवति, न नैव इतरेषाम् आदर्शेऽसङ्क्रान्तानामिति ||१०|| ततः किमित्याह छायाणुवेहओ खलु जुज्जइ आयरिसगे पुण इमं ति। सिद्धम्मि तेजश्छायाणुजोगविरहा अदेहाओ॥११॥ अक्षरगमनिका—छायाणुवेधत आदर्शक खलु युज्यत इदं सिद्धे पुनरदेहात् तेजश्छायाणुयोगविरहात् ।।११।। टीकाछायाणुवेधतः छायाया येऽणवस्तेषां वेधतः सङ्क्रमत आदर्शक दर्पणे एव खलुशब्दोऽवधारणे युज्यते संगच्छते इदं विषयप्रतिबिम्बम् । सिद्धे पुनः सिद्धपरमात्मनि तु अदेहात् शरीराभावात् तेजश्छायाणुयोगविरहात् तेजः सूर्यादिप्रकाशस्तस्य विप्रकृष्टत्वेनाऽयोगात् तथा छायाणवो ज्ञेयसत्कछायाणवस्तेषां योगविरहात् सिद्धानां देहाभावेनैव तत्र सङ्क्रमाभावात् सम्बन्धाभाव इति केवलज्ञाने ज्ञेयप्रतिबिम्ब कथं युज्येत ? नैव युज्यत इति भावः ।।११।। एतदेवाह छायाणुहिं न जोगोऽसंगत्ताओ उ हंदि सिद्धस्स। छायाणवोऽ वि सब्बे वि णाऽणुमाईण विजंति ॥१२॥ अक्षरगमनिका—हन्त ! सिद्धस्याऽसङ्गत्वात्तु छायाणुभिर्न योगः, छायाणवोऽपि सर्वेषामण्वादीनां न विद्यन्ते ।।१२॥ टीका—हन्त ! आमन्त्रणे सिद्धस्य सिद्धपरमात्मनः असङ्गत्वात्तु देहादिरूपिपदार्थसार्थलक्षणसङ्गाभावादेव छायाणुभिर्विषयप्रतिबद्धैः सहाऽऽकाशस्येव न नैव योगः सम्बन्धः। न केवलं छायाणुभिर्योगाभावः, छायाणवोऽपि उक्तस्वरूपाः सर्वेषां निखिलानाम् अण्वादीनां परमाणुह्यणुकादीनां सूक्ष्मपदार्थानां प्रतिसमयं संघातविघटनाभावेन निस्यन्दाभावाद् धर्मास्तिकायादीनां चाऽमूर्तपदार्थानां छायाऽभावादेव न नैव वियन्ते वर्तन्त इति ।।१२।। ननु यावन्तः पदार्थाः केवलज्ञाने प्रतिबिम्ब्यन्ते तेषां प्रत्यक्षं ज्ञानं भवतु, शेषपदार्थानां ग्रहणं चानुमानतो जायेतामित्याशङ्कयाह तंमित्तवेयणं तह ण सेसगहणमणुमाणओ वा वि। तम्हा सरूवनिययस्स एस तग्गहणपरिणामो॥१३॥ अक्षरगमनिका-तथा तन्मात्रवेदनं नाऽपि शेषग्रहणमनुमानतो वा। तस्मात् स्वरूपनियतस्यैष तद्ग्रहणपरिणामः ।।१३।। टीका–घण्टालोलन्यायेन नशब्दस्यात्राप्युपादानाद् नैव तथा तेन प्रकारेण प्रतिबिम्बद्वारेण केवलज्ञाने तन्मात्रवेदनं प्रतिबिम्बितमात्रपदार्थानां ज्ञानमभ्युपगम्यते तस्य सर्वावभासकत्वात् नापि परिहारसमुच्चये नैव शेषग्रहणं शेषाणां प्रतिबिम्बितव्यतिरिक्तानां पदार्थानां ग्रहणं ज्ञानम् अनुमानतो वा विकल्पे लिङ्गलिङ्गिज्ञानतः अभ्युपेयते केवलज्ञानस्य प्रत्यक्षत्वेनाऽभ्युपगमात् । स्यादेतत्, केवलज्ञानं सर्वगतमस्तु । मैवं, गत्युपष्टम्भकधर्मास्तिकायविरहितेऽनन्तेऽलोके गमनाभावात् समयमात्रेण च सामस्त्येन गमने तस्यानन्तत्वविरोधाच्च । तस्मात् कारणात् स्वरूपनियतस्य स्वात्मप्रदेशपरिमितक्षेत्रस्थस्य केवलज्ञानस्यैव एष आकारः तद्ग्रहणपरिणामः ज्ञेयगताकारज्ञानपरिणतिलक्षणो बोद्धव्य इति शेषः ।।१३।। अत्र पर आह---- चंदाइचगहाणं पहा पयासेइ परिमियं खित्तं। केवलियनाणलंभो लोयालोयं पयासेइ ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy