________________
११८ ] अष्टादशी केवलज्ञानविंशिका
[ विंशतिर्विशिकाः ता एवं पि तह चिय तग्गाहगभावओ उ नायव्वं ।
आगारोऽपि य एयस्स नवरं तग्गहणपरिणामो॥७॥ अक्षरगमनिका तस्मादेतदपि तद्ग्राहकभावतस्तु तथैव ज्ञातव्यम् । आकारोऽपि चैतस्य केवलं तद्ग्रहणपरिणामः ॥७॥
टीका-यस्मात् सर्वं ज्ञेयं साकारनिराकाररूपं तस्मात् कारणात् तद्विषयकं न केवलं मत्यादिज्ञानम् एतदपि केवलज्ञानमपि तद्ग्राहकभावतस्तु ज्ञेयग्राहकभावादेव तथैव ज्ञेयवत् साकारनिराकाररूपमेव ज्ञातव्यं बोद्धव्यम्। ननु ज्ञानस्यामूर्तत्वात् कथं तस्याऽऽकारो घटेतेत्याशङ्कयाह—आकारोऽपि च आस्तां ज्ञानं तदाकारोऽपि सामान्यविशेषलक्षण एव, एतस्य केवलज्ञानस्य नवरं प्राकृतत्वात् केवलं तद्ग्रहणपरिणामः वस्तु-विषयकज्ञानपरिणतिलक्षणः । ज्ञेयगतसामान्यविशेषाऽऽकारौ हि ज्ञाने ज्ञानरूपेण परिणमेतेऽतो विषयगताऽऽकारसम्बन्धी ज्ञानपरिणाम एव ज्ञानस्याऽऽकार इति भावः ।।७।। अन्यथाऽघटमानतामाह
इहरा उ अमुत्तस्सा को वाऽऽगारो न यावि पडिबिंबं ।
आदरिसगिव विसयस्स एस तहजुत्तिजोगाओ॥८॥ अक्षरगमनिका—इतरथाऽमूर्तस्य तु को वाऽऽकारः ? अपि च नैष विषयस्य आदर्शक इव प्रतिबिम्ब तथायुक्तियोगात्तु ॥ ८॥
टीकाइतरथा ज्ञेयग्रहणपरिणामलक्षणस्य ज्ञानाकारस्याऽनभ्युपगमे अमूर्तस्य तु अरूपिणो ज्ञानस्य पुनः को वाऽऽकारः ? न कोऽपि आकार इति भावः। अपि च समुच्चये न नैव एष ज्ञानाकार आदर्शक दर्पणे इव विषयस्य ज्ञेयस्य प्रतिबिम्बं प्रतिच्छायाऽभ्युपगम्यते, धर्मास्तिकायादीनामूर्तत्वेन तत्प्रतिबद्धछायापुद्गलाभावात्। एवमनभ्युपगमे किं प्रमाणमित्याह-तथायुक्तियोगात्तु यथा ज्ञाने ज्ञेयस्य प्रतिबिम्बं नाभ्युपगम्यते तथा युक्तिलाभादेवेति हेतोः ॥ ८॥ प्रतिज्ञातयुक्तिप्रदर्शनार्थं भूमिकामारचयन्नाह
सामा उ दिया छाया अभासरगया निसिं तु कालाभा। स चेय भासरगया सदेहवना मुणेयव्वा ॥६॥ जे आरिसस्स अंतो देहावयवा हवंति संकंता।
तेसिं तत्थुवलद्धी पगासजोगा ण इयरेसिं ॥१०॥ अक्षरगमनिका—छाया दिवा त्वभास्वरगता श्यामा, निशि तु कालाभा, सैव भास्वरगता स्वदेहवर्णा मुणितव्या ||६|| आदर्शस्याऽन्तर्ये देहावयवा भवन्ति सङ्क्रान्तास्तेषां तत्रोपलब्धिः प्रकाशयोगाद् नेतरेषाम् ।।१०॥
टीका–छाया प्रतिबिम्बितघटपटादिविषयस्य प्रतिबिम्बरूपा दिवा तु वासरे पुनःअभास्वरगता अदेदीप्यमानपृथिव्यादिषु सङ्क्रान्ता श्यामा प्रियङ्गुप्रभेव नीलवर्णा, निशि तु रात्रौ पुनः कालाभा कृष्णवर्णा,सैव छाया भास्वरगता देदीप्यमानादर्शादिपदार्थेषु सङ्क्रान्ता सती स्वदेहवर्णा स्वस्य प्रतिबिम्बितविषयस्य देहः पुद्गलोपचयरूपस्तस्य यो रक्तादिवर्णस्तद्वर्णा मुणितव्या बोद्धव्या ।।६।। नन्वादर्शसन्मुखा ये देहावयवास्त एव तत्रोपलभ्यन्ते नाऽपरे तत्कथमित्याशङ्कयाह—आदर्शस्य दर्पणस्य अन्तर्मध्ये ये देहावयवा ये विषयदेशा भवन्ति जायन्ते सङ्क्रान्ताः प्रतिबिम्बितास्तेषां देहावयवानामेव तत्राऽऽदर्श उपलब्धिः साक्षात्कारः प्रकाशयोगात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org