________________
विंशतिर्विशिकाः] षोडशी प्रायश्चित्तविंशिका ..
[ १०५ अक्षरगमनिका-प्रायो भावेनाऽऽभोगेन सहसापि आसेविते प्राणवधादौ यतेः पुनव्रतारोपणा मूलम् ।।१४।।
टीका-प्रायो बाहुल्येन भावेन वस्तुत आभोगेन जानताऽऽकुट्टितः सङ्कल्पेनेत्यर्थः, तथा सहसापि असमीक्षितकारितयाऽपि आसेविते विहिते प्राणवधादौ तत्तद्वतोरभेदोपचारात् प्राणिहिंसादौ आदिपदाद् मृषावादाऽदत्तमैथुनादिपरिग्रहः, चारित्रनाशाद् यतेः श्रमणस्य चाऽऽवृत्तचरणपरिणामस्य दोषपरिहारमाश्रित्य तदुत्तरकालं पुनर्मुहुव्रतारोपणा महाव्रतेषु न्यासो महाव्रतानां वाऽऽरोपणं मूलं मूलाभिधेयं प्रायश्चित्तमिति ।।१४।। अथाऽनवस्थाप्यमाह
साहम्मिगाइतेणाइभावओ संकिलेसभेएण।
तक्खणमेव वयाण वि होइ अजोगो उ अणवट्ठा ॥१५॥ अक्षरगमनिका–सङ्क्लेशभेदेन साधर्मिकादिस्तेनादिभावतस्तत्क्षणमेव व्रतानामपि भवत्ययोग्यस्त्वनवस्थाप्यः ।।१५॥
टीका-सङ्क्लेशभेदेन चारित्रविगमहेतुदुष्टाऽध्यवसायविशेषेण साधर्मिकादिस्तेनभावतः साधर्मिकाः साधुप्रभृतय आदिपदादन्यपाषण्डिका गृहस्थाश्च तेषां शिष्यशिशुसुवणदिरुत्कृष्टद्रव्यस्य स्तेनादिभावतः स्तेनस्य भावः स्तन्यं चौर्यमादिपदाद घोरपरिणामत आत्मनः परस्य वा मरणनिरपेक्षयष्टिमुष्ट्यादिप्रहारदानादिग्रह स्ततःतत्क्षणमेव तत्कालमेव व्रतानामपि पुनव्रतारोपणलक्षणमूलप्रायश्चित्तस्यापि भवति जायते अयोग्यः अनर्ह एव तुशब्दोऽवधारणे। न चाऽनासेविते तदवस्थोचिताऽऽगमोक्ततपसि स्थाप्यते यो महाव्रतेषु सोऽनवस्थाप्यः। तदभेदोपचारात् प्रायश्चित्तमपि तथोच्यत इति ।।१५।। अथ पाराञ्चिकमाह
पुरिसविसेसं पप्पा पावविसेसं च विसयभेएण।
पायच्छित्तस्संतं गच्छंतो होइ पारंची ॥१६॥ अक्षरगमनिका-पुरुषविशेष विषयभेदेन च पापविशेषं प्राप्य प्रायश्चित्तस्यान्तं गच्छन् भवति पाराञ्ची ।।१६।।
टीका-पुरुषविशेषं विशिष्टाऽऽचार्यस्थानीयं पुरुषद्रव्यं तथा विषयभेदेन पापगोचरविशेषेण चः समुच्चये पापविशेषं विशिष्टपापं प्राप्याऽऽश्रित्य, तथाहि-पौनःपुन्येन परस्परं वेदविकारणं तथा पञ्चमनिद्रावशविवर्तनं तथा दुष्टं तच्च द्विविधं कषायतो विषयतश्च, तत्र स्वपक्षे कषायतो लिङ्गिघातः, विषयतस्तु लिङ्गिनीप्रतिषेवा, परपक्षे तु कषायतो राजवधो विषयतस्तु राजपत्नीसेवा तथा तीर्थकराद्याशातनाप्रभृतिविषयभेदेन पापविशेषमाश्रित्य प्रायश्चित्तस्य पूर्वोक्तस्वरूपस्य तपसा चतुर्थादिषण्मासपर्यन्तेन कालेन च षण्मासादिद्वादशवर्षावसानेन अन्तं पारं गच्छन् अञ्चन् भवति जायते पाराञ्ची प्रायश्चित्तपारगामी। तदभेदात् प्रायश्चित्तमपि पाराञ्चिकम्। एवम्भूतश्चासौ दीक्ष्यते नान्यथा । अत्र मतान्तरेण तु ये जीवा ऋषिघातका अर्हप्रतिमाविनाशकाः प्रवचनोपघातकारिणो लिङ्गिनीप्रतिषेवकाश्चैत्यद्रव्यविनाशकाश्च ते पाराञ्चिका उच्यन्ते वर्तमानभवे भवान्तरेषु च चरणाऽयोग्या हतबोधिलाभत्वात् च पायश्चित्ताऽगोचरा इत्यर्थः । यदागमः-संजइ चउत्थभंगो चेइयदब्वे य पवयणुड्डाहे । रिसिघायणे चउत्थे मूलग्गी बोहिलाभस्स ।। १।।१६।।
अथ प्रायश्चित्तफलमाहविं. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org