SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [ ६५ विंशतिर्विशिकाः ] पञ्चदशी आलोचनाविधानविंशिका टीका-एवं चानन्तरोक्तनीत्यैव भिक्षादिषु गोचरचर्यास्थानगमनागमनस्वाध्यायप्रतिलेखनप्रभृतिषु यत्नवतोऽपि यतनाशीलस्याऽपि मातृदोषतः पदैकदेशे पदोपचाराद् मातृस्थानदोषतो मायादोषत इत्यर्थः, तथाहि-गृहस्थः कदाचित् कालेनाऽनुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात्, तच्चाऽप्रतिषिध्यैव कश्चित् साधुस्तूष्णीभावेनोत्प्रेक्षेत, किमर्थम् ? आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, उपलक्षणाद् विस्मृतेः प्रमाददुश्चरिताच्च ये केचनाऽतिचारा अपराधाश्चारित्रमालिन्याऽऽपादका भवन्ति जायन्ते तान अतिचारान् पुनर्यतिः श्रमण आलोचनया गुरुपार्थे स्वाऽपराधनिवेदनया शोधयति परिमार्जयतीति ।।१।। अथाऽऽलोचनादानस्याऽवसरं विधिं चाह पक्खे चाउम्मासे आलोयण नियमसो उ दायवा। गहणं अभिग्गहाण य पुव्वग्गहिए णिवेदेउं ॥२॥ अक्षरगमनिका—पक्षे चातुर्मास्ये चाऽऽलोचना तु नियमशो दातव्या। पूर्वगृहीतान् च निवेद्याऽभिग्रहाणां च ग्रहणम् ।।२।। टीका-सामान्यतो यदाऽपराधो जायते तदैवाऽऽलोचना दातव्या, परं तथाविधसंयोगाऽभावे पक्षे मासार्धक तथा चातुर्मास्ये चतुर्मासान्ते चः समुच्चये आलोचना पूर्वोक्तस्वरूपा तुशब्दोऽवधारणे नियमशोऽवश्यंतयैव दातव्या समर्पणीया। किञ्च-पूर्वगृहीतान् आलोचनादानात् प्राग् गृहीतानुपात्तानभिग्रहान् च निवेय गुरवे कथयित्वा नवानां चाभिग्रहाणां द्रव्यक्षेत्रकालादिभेदभिन्नानां पक्षादिकालमानानां नियमानां ग्रहणम् उपादानं कर्तव्यमिति शेषः। अभिग्रहा हि साधूनां विशिष्टाचारत्वात् सत्त्ववृद्धिहेतुभावात् कर्मक्षयकारणाच्चाऽऽलोचनाऽर्हत्वख्यापका इति।२।। अथाऽऽलोचनारहस्यार्थमाह आलोयणा पयडणा भावस्स सदोसकहणमिइ गज्झो। गुरुणो एसा य तहा सुविजनाएगा विनेआ॥३॥ अक्षरगमनिका-भावस्य प्रकटना तथा स्वदोषकथनमालोचनेति ग्राह्यम्। सुवैद्यज्ञातेनैषा गुरोविज्ञेया ।।३।। टीका-भावस्याऽपराधसेवनकाले यदशुभमध्यवसितं तस्य प्रकटना प्रकाशना यथाऽपराधो जातस्तथा स्वदोषकथनं निजापराधनिवेदनम् आलोचना आ समन्ताद् द्रव्यक्षेत्रकालभावैर्लोचनं प्रकाशनं कथनमितिशब्दो निदर्शन आलोचनापदार्थ इति प्राकृतत्वेन लिङ्गव्यत्ययाद् ग्राह्यं बोद्धव्यम् । अथवा 'गुज्झो' इति पाठं संभाव्य गुह्मः स्वदोषकथनमालोचनारहस्यार्थ इति। कस्य दातव्यैषेति दृष्टान्तपुरस्सरमाहसुवैयज्ञातेन यथा सुज्ञव्याधितः सुवैद्यस्य आयुर्वेदनिष्णातस्याग्रे स्वकीयव्याधिव्यतिकरं निवेदयति तथा तद्वदेषाऽऽलोचना गुरोराचार्यस्य गीतार्थस्य वा श्रमणस्याग्रे विज्ञेया बोद्धव्येति ।। ३।। एनमेवार्थं विशदयति जह चेव दोसकहणं न विजमित्तस्स सुंदरं होइ। अवि य सुविजस्स तहा विनेयं भावदोसे वि॥४॥ अक्षरगमनिका-यथा च वैद्यमात्रस्य दोषकथनं सुन्दरं न भवति, अपि च सुवैद्यस्य तथा भावदोषेऽपि विज्ञेयम् ।।४॥ टीका-यथा च यद्वच्च वैयमात्रस्य आयुर्वेद विज्ञानविरहितस्य नाममात्रस्य भिषजः पुरतो दोषकथनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy