SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ - पञ्चदशी आलोचनाविधानविंशिका [विंशतिर्विशिकाः पाणीये जंतुवहो मंसादीदंसणे य उवसग्गे। पादंतरपंचिंदिय संपादो भायणाणं च॥३॥ उच्चारं पस्सवणं अभोजगिहपवेसणं तहा पडणं। उववेसण संदंसो भूमी संफासणिट्ठिवणं ॥४॥ उदरक्किमिणिग्गमणं अदत्तगहणं पहारगामदाहो य। पादेण किंचिगहणं करेण वा जच्च भूमीदो॥५॥ एदे अण्णे बहुगा कारणभूदा अभोजणस्सेह । भीहण लोयदुगुच्छण संजमणिब्वेदणटुं च॥६॥ अक्षरगमनिका-काकगृद्धादीनां विट्पातः १। छर्दिर्वमनं स्वगतम् २। रोधन केनचित् ३। रुधिरं स्वकीयात् परकीयाद्वा शरीरादधिकप्रमाणेन रुधिरस्य निर्गमनम् ४। अश्रुपातः शोकादेः ५। गृहप्रवेशादौ जानूपरिपरिघादिकाष्ठोल्लङ्घनम् ६। लघुद्वारगृहप्रवेशादौ व्यतिक्रमः शिरोनामनम् | प्रत्याख्यातद्रव्यसेवनम् ८। जन्तुवध ईर्यापथिकायां मार्जारादिना वा मूषकादेः ६। काकादिना पिण्डाऽपहरणम् १०। स्वस्य दातुर्वा पाणितः पिण्डपातः ११। पाने मक्षिकादिजन्तुवधः १२। पशुमांसादिदर्शनम् १३/ दिव्याधुपसर्गः १४। पादयोरन्तराले पञ्चेन्द्रियनिर्गमनम् १५। स्वस्य दातुर्वा भाजनपातः १६। भिक्षाटन एवोच्चारप्रस्रवणम् १७-१८। अनाभोगत एवाऽभोज्यगृहप्रवेशः १६। भ्रमितः श्रमतो वा भूमौ पतनं तदेवोपवेशनम् २०। श्वादिना दंशः २१। हस्तेन भूमिस्पर्शः २२। पिण्डोपरि निष्ठीवनपातः २३। उदरकृमिनिर्गमनम् २४। अदत्तपिण्डग्रहणम् २५ स्वोपरि प्रत्यासन्ने वा जन्तौ प्रहारः २६। ग्रामदाहश्च २७| भूमितो हस्तेन पादेन वा जात्यसुवणदिर्ग्रहणम् २८ एतेऽन्ये च बहुका अन्तरायाः कारणभूता अभोजनस्येह जिनप्रवचने. तथाहि-यद्धादेर्भीः २६ लोकजगप्सा ३०। संयमः स च जीवरक्षेन्द्रियदमनलक्षणश्च ३१। भवनिर्वेदाच्च ३२। इति गाथाषट्काक्षरगमनिका। अत्र विंशिकायामनन्तरोक्तव्यतिरिक्तानामपि श्रमणसूत्रभणितानां पिहितकपाटोद्धाटनश्वानवत्सदारकसंघट्टनप्रभृतीनां दोषाणां निर्देशः संभवति। तत्त्वं तु केवलिगम्यमिति ।। पञ्चदशी आलोचनाविधानविंशिका अनन्तरविंशिकायां भिक्षाया अशुद्धिलिङ्गानि तदन्ते चान्तराया उक्ताः । अत्र विंशिकायां तु भिक्षासु यत्नवतोऽपि येऽतिचारा जायन्ते तेषां शुद्ध्यर्थमालोचनाविधानमाह भिक्खाइसु जत्तवओ एवमवि य माइदोसओ जाओ। हुंतऽइयारा ते पुण सोहइ आलोयणाइ जई॥१॥ अक्षरगमनिका—एवं च भिक्षादिषु यत्नवतोऽपि मातृदोषतो येऽतिचारा भवन्ति तान् पुनर्यतिरालोचनया शोधयतीति ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy