________________
युगप्रधान आ. जिनदत्तसूरिजी का जैन धर्म एवं साहित्य में योगदान
२५३
श्रीचक्रेश्वरि नित्यमेव भवतीनामाऽपि ये सादरं ।
सन्तः सत्यशमाश्रिताः प्रतिपदं सम्यक् स्मरन्ति स्फुरत् । तेषां किं दुरितानि यान्ति निकटे नायाति किं श्रीगुहे।
नोपैति द्विषतां गणोऽपि विलयं नाऽभीष्टसिद्धिर्भवेत् ॥ ६॥
श्रीचक्रेश्वरि ये भवन्ति भवतीपादारविन्दाश्रिता
सो भृङ्गा इव कामितार्थमधुनः पात्रं सदैवाङ्गिनः । जायन्ते जगति प्रतीतिभवनं भव्याः स्फुरत्कीर्तय
स्तेषां क्वापि कदापि सा भवति नो दारिद्रयमुद्रा गृहे ॥ ७॥
श्रीचक्रेश्वरि यः स्तवं तव करोत्युच्चैः स किं मानवः
कस्मादन्यजनाच्च याचत इह क्लेशैर्विमुक्ताशयः । कासश्वासशिरोगलग्रहकटीवातातिसारज्वर
स्रोतोनेत्रगतामयैरपि न स श्रेयानिह प्रार्थते ॥ ८॥
श्रीचक्रेश्वरि शासनं जिनपतेस्तद्रक्षसि त्वं मुदा
ये केचिजिनभाषितान्यवितथान्युच्चैः प्रजल्पन्ति च। भत्र्यानां पुरतो हितानि कुरुषे तेषां तु तुष्टिं सदा
___ क्षुद्रोपद्रवविद्रवं प्रतिपदं कृत्वा कृतान्तादपि ॥९॥
श्रीचक्रेश्वरि विश्वविस्मयकरी त्वं कल्पवृक्षोपमा
धत्सेऽभीष्टफलानि यस्तुनिकृतिं दत्से विना संशयं । तेन त्वं विनुता मयाऽपि भवति मत्वेति सन्निश्चयं
कुर्याः श्रीजिनदत्तभक्तिषु मनो मे सर्वदा सर्वथा ॥ १० ॥
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org