________________
२५२
युगप्रधान आ. जिनदत्तसूरिजी का जैन धर्म एवं साहित्य में योगदान
८. श्रीचक्रेश्वरीस्तोत्रम्
श्रीचक्रेश्वरि चक्रचुम्बितकरे चञ्चश्चलत्कुण्डला
___ लंकारे कृतमस्तकोरुमुकुटे प्रैवेयकालंकृते ॥ स्फारोदारभुजानभूषणकरे सन्नूपुरैबन्धुरे
मातर्मन्ति नयं स्वमिष्टविनयं त्रायस्य संत्रासतः॥ १ ॥
श्रीचक्रेश्वरी चन्द्रमण्डलमिव ध्वस्तांधकारोत्कर
भव्यप्राणिचकोरचुम्बितकरं संतापसंपद्धरं । सम्यग्दृष्टिसुखप्रदं सुविशदं कान्त्यास्पदं संपदा
पात्रं जीवमनः प्रसादजनकं भाति त्वदीयं मुखम् ।। २ ।।
श्रीचक्रेश्वरी युष्मदाननरविं पश्यन्ति नैवोदितं
ध्वस्तध्वान्तततिं प्रदत्तसुगतिं संप्राप्तमार्गस्थिति। ते ज्ञेया इह कौशिका इव जना हेयाः सतां सर्वथा
नादेया कुदृशो भवन्ति भगवत्युच्चैःशिवं वांछतां ॥ ३ ॥
श्रीचक्रेश्वरी युष्मदंघ्रिचरितं सर्वत्र तद्विश्रुतं।
कस्याज्ञस्य मनोमुदे भवति नो निष्पुण्यचूडामणेः । कारुण्यान्वितमंगिसंगतमतिभ्रान्तिप्रशांतप्रियं
श्रीसंकेतगृहं सदास्तविरहं पुण्यानुबन्धि स्फुटम् ॥ ४ ॥
श्रीचक्रश्वरी ये स्तुवन्ति भवती भव्या भवद्वक्तयः ।
श्रीसर्वज्ञपदारविन्दयुगले विश्राममातन्वतीम् । भृङ्गीवत्सदृशां सुखं त्वसदृशं संप्रार्थयन्तो जनास्ते स्युर्ध्वस्तविपत्तयः सुमतयः स्पष्टं जितारातयः ।। ५ ॥
***
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org