________________
हररररर
र रा24गरररररररररररररररर हरिपीठे सिंहासने पर्वत इत्यनेन कैलासपर्वत इव प्राणेश्वरस्य पाक् संगच्छते स्मेति पार्श्वसंगताऽसौ सती महिषी पट्टराज्ञी, पशुपतेर्महादेवस्य पार्श्वगता पार्वतीव तदा बभौ शुशुभे । अपि च पादपूर्ती ॥३१-३२॥
__उद्योतयतीत्यादि- उदितानामुदयमितानांदन्तानां विशुद्धौर्निर्दोषैरोचिरशैीप्तिलेशैर्नृपस्यस्वामिनः कलयोर्मनोहरयोः कुण्डलयोः कर्णाभूषणयोः कल्पस्य संस्थानस्य शोचिः कान्तिमुद्योतयन्ती वर्धयन्ती सती सा चन्द्रवदना राज्ञी समयानुसारं यथा स्यात्तथाऽवसरमवेत्येत्यर्थः । तस्य नरपतेः कर्णयोर्मध्ये इति निम्नाङ्कितं वच एवामृतं प्रसक्तिहेतुत्वात्, यच्चोदारमसंकीर्ण स्पष्टतयेत्यर्थः । तदपि पुनश्चिक्षेप पूरितवती ॥ ३३ ॥
श्रीत्यादिवयम् - हे प्राणेश्वर, संशृणु, या भगवच्चरणपयोजभ्रमरी या चोत किल श्रीजिनपद-प्रसादादवनौ सदा कल्याणभागिनी तया मया निशावसाने विशदाङ्का स्पष्टरूपा स्वप्रानां षोडशी ततिः सहसाऽनायासेनैव दृष्टा तस्या यत्किञ्चिदपि शुभमशुभं वा फलं शुभाशुभफलं तद् हे सज्ज्ञानेकविलोचन, श्रीमता भवता वक्तव्यमस्ति यतः खलु ज्ञानिनां निसर्गादेव किञ्चदप्यगोचरं न भवति ॥ ३४ - ३६ ॥
पृथ्वीनाथ इत्यादि - पृथ्वीनाथः सिद्धार्थ स प्रथितः ख्यातस्वरूपः सुपृथुर्विशाल: प्रोथो नितम्बदेशो यस्यास्तया 'प्रोथः पान्थेऽश्वघोणायामस्त्री ना कटि-गर्भयोः' इति विश्वलोचनः । महिष्या प्रोक्तामुक्ता पृथुमतिविस्तृतं कथनं यस्यां तां तीर्थरूपामानन्ददायिनी तथ्यां सारभूतां वाणीं श्रुत्वा ततो हर्षणै रोमाञ्चैर्मन्थरमङ्गं यस्य सः । अथ च पुनः सोऽविकलया गिरा प्रस्पष्टरूपया वाचा स्वकीयया तामित्थं निम्नप्रकारेण तावत् सत् प्रशंसायोग्यो मङ्गलरूपश्चार्थोऽभिधेयो यस्यास्तां तादृशीं प्रथयतितरां स्म दर्शयामासेति । कीदृशो राजा, फुल्ले विकास प्राप्ते ये पाथोजे कमले; त इव नेत्रे यस्य स प्रसन्नताधारक इत्यर्थः ॥ ३७ ॥
त्वं तावदित्यादि - हे तनूदरि, तनु स्वल्पमुदरं यस्याः सा तस्सम्बुद्धिः । त्वं तावच्छयने सुखशयनापि पुनरन्येभ्योऽसाधारणामनन्यां स्वप्रावलिमीक्षितवती ददर्शिथेति हेतोस्त्वं धन्या पुण्यशालिनी भासि राजसे। भो प्रसन्नवदने; हे कल्याणिनि यथास्या: स्वप्रततेर्म तमं जनमनोरञ्जकं फलितमिहलके स्यात्तथा ममास्यान्मुखाच्छृणु ॥३८॥
अकलनेत्यादि - हे सुभगे शोभने त्वं मीमांसिताख्याऽऽप्तमीमांसेव वा विभासि राजसे यतस्त्वं किलाकलङ्का निर्दोषा अलङ्कारा नूपुरादयो यस्याः सा, पक्षेऽकलङ्केन नामाचार्येण कृतोऽलङ्कारो नाम व्याख्यानं यस्याः सा। अनवद्यं निर्दोषं देवस्य नाम तीथकर्तुरागमोऽवतारस्तस्यार्थं तमेव वार्थं प्रयोजनं, पक्षे देवागमस्य नाम श्रीसमन्तभद्राचार्यकृतस्तोत्रस्यार्थं वाच्यं गमयन्ती प्रकटयित्रीत्यर्थः । सतां वृद्धानां नय आम्नायस्तस्मात् । पक्षे समीचीनो यो नयो न्यायनामा ततो हेतोः । श्लेषोपमा ॥ ३९ ॥
लोकेत्यादि - उत्फुल्ले नलिने कमले इव नयने यस्यास्तस्याः सम्बोधिनम् । इदं तेवेङ्गितं चेष्टितं हीति निश्चयेनाद्य तवोदरे लोकत्रयस्य त्रिभुवनस्यैकोऽद्वितीयस्तिलकः ललाटभूषणमि व यो बालकः सोऽवतरितः समायात इत्येवं प्रकारेण सन्तनोति स्पष्टयति । क्रमशस्तदेव वर्णयितुमारभते ॥ ४० ॥
दानमित्यादि - प्रथममैरावतहस्तिस्वप्नं स्पष्टयति-स किल निश्चये द्वौ रदौ दन्तौ यस्य स द्विरद इव हस्तिसमानो भवनवतरेदवतारमाप्नयात् । यतः सोऽखिलासु दिक्षु मेदिनीचक्रे पृथ्वीमण्डले मुहरपि वारं वारं दानं मुञ्चन् मदमिव त्यागं कुर्वन् सन् पुनः समुन्नत आत्मा चेतनं शरीरं वा यस्य सः । विमलो मलेन पापेन रहितः शुक्लवर्णश्च मुदितो मोदमितः प्राप्त ईदृश ऐरावत इव सम्भवेदिति ॥ ४१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org