________________
निर्दिशति । उद्द्योतकरस्य समयो यद्यप्यनिश्चितस्तथापि दिङ्नागादर्वाग् वैक्रमे चतुर्थे पञ्चमे वा शतके तस्यावस्थितिः सम्भाव्यते । अतश्चन्द्रानन्दस्य ततोऽग्भिावित्वं स्फुटमेव । 'स्थानद्वये चन्द्रानन्दः कञ्चन वृत्तिकारं निर्दिशति, यथा च प्रागावेदितं तथा जिनेन्द्रबुद्धितोऽपि वृत्तिकारः प्राचीनः । यदि चायं वृत्तिकारः प्रशस्तमतिरेव प्रशस्तमतिश्च प्रशस्तपादाद् यद्यभिन्नस्तार्ह वृत्तिकारमतमत्र प्रशस्तपादमतमिति ध्येयम् ।
वेदादिभ्यो बहूनि वाक्यान्यत्र चन्द्रानन्देनावतारितान्यतो नानाविषयावगाहि तस्य वैदुष्यं सम्भाव्यते । देवनागर्यां शारदालिप्यां च वृत्त्यादर्शोपलम्भात् कस्मिंश्चित् काले संक्षेपरुचीनां भृशमुपयोगित्वाद् नानादेशेषु तस्याः प्रचारः सम्भाव्यते । वैशेषिकसूत्रपरिशिष्टानि
अत्रास्माभिर्नव परिशिष्टानि सङ्कलितानि । तेषां विषयो विषयानुक्रमाज्ज्ञेयः । तेषां प्रयोजनं शीर्षकेभ्यः सुगमम् । तथापि यद् विशिष्य वक्तव्यं तत् किञ्चिदुच्यते ।
चन्द्रानन्दस्य सर्वदर्शनसंग्रहकृतः सायणमाधवाचार्यस्य च वैशेषिकसूत्रस्यान्त्येषु त्रिष्वध्यायेषु आह्निकविभागो नाभिमत इत्यस्माभिश्चतुर्थे परिशिष्टे प्रदर्शितम् । 'वल्लालसेनस्य राज्ञः समये रचिताया अविज्ञातकर्तृकाया एकस्या वैशेषिकसूत्रवृत्तेरन्त्यमध्यायद्वयं मातृकागतमुपलभ्यते तत्रापि न कश्चिदाह्निकविभागो दृश्यत इत्यनन्तलालदेवशर्माणोऽपि समर्थयन्त्येतत् ।
___ पञ्चमे परिशिष्टे सर्वसिद्धान्तप्रवेशकाख्यात् सप्तदर्शनसिद्धान्तप्रतिपादकादविज्ञातकर्तृकाच्चिरन्तनाज्जैनग्रन्थाद् वैशेषिकदर्शनमुद्धृत्य विनिवेशितम् ।
षष्ठे परिशिष्टे जैनाचार्यश्रीमल्लवादिक्षमाश्रमणप्रणीतात् सिंहसूरिगणिवादिक्षमाश्रमणसन्हब्ध न्यायागमानुसारिणी 'वृत्त्यलकृताद नयचक्राख्यमहाशास्त्राद वैशेषिकदर्शनैतिह्यसङ्कलनोपयोगिन उल्लेखाः संगृहीताः । प्राचीनवैशेषिकग्रन्थानां स्वरूपादिपरिज्ञानेऽस्य परिशिष्टस्य विशिष्ट उपयोगः। मलवादिना कटन्या टीकया सहोद्धतं
१ पृ० ६९, ७० ॥ २ प्रस्तावना पृ० ११ ॥ ३ विक्रमसंवत् १२१४ तः १२३४ पर्यन्तमस्य राज्यमासीत् । दृश्यताम् Introduction
p. I7॥ ४ दृश्यताम् Introduction p. 21 ॥ ५ जेसलमेरनगरस्थजैनग्रन्थभाण्डागारेऽस्य मातृकाद्वयमुपलभ्यते ॥ ६ अत्र पृ० १.१. पं० १८, पृ० १५० ५० ३-४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org