________________
२०६
सवृत्तिके सटीके च प्रमाणसमुच्चये वैशेषिकहेत्वाभास परीक्षा ।
कारणं तत् ततो न व्यावर्तते यथा स्थाणुपुरुषयोरूर्ध्वत्वम् श्रावणत्वमपि षट्सु पदार्थेषु संशयस्य कारणमिति विपर्ययेणापि व्यापकविरुद्धोपलब्धिरेव । तस्मादित्यादि, द्रव्यादीनामन्यतमेन शब्दे नावश्यं भाव्यम्, अन्यथा तस्य भावत्वमेव न स्यात् पदार्थान्तिरानभ्युपगमात् । तस्माद् द्रव्यादीनामेवान्यतमस्य कस्यचिदयं धर्म इति तद्धर्मसम्भवद्वारेण संशय5 कारणम्, न तद्व्यावृत्तिद्वारेणेति साधारणादन्यः, स च लक्षणादुदाहरणाच नोक्त इति न्यूनोक्तिः ।
विरुद्वैकान्तिक इति परस्परविरुद्धार्थसाधनाद् विरुद्वश्वासावैकान्तिकश्चेति विरुद्वैकान्तिकः, अवयवद्वारेण समुदाये वर्तमानयोः समासः लोहितसारङ्गवत् । विरुद्धानै. कान्तिक इति कचित् पाठः । तत्र विरुद्धः पूर्ववत्, अनैकान्तिकः सन्दिग्धत्वात् । 10 विरुद्धानैकान्तिक इत्यभिहिते पुनरनेकत्र वनं विरुद्धहेतुतो विशेषणार्थम् । अन्ये स्वाहुः सन्दिग्ध हेत्वधिकारात् सामर्थ्यप्राप्तस्यैवानेकत्वस्य अनेक इत्यनुवादः सुखप्रतिपक्ष्यर्थमिति । पञ्चानां लिङ्गोपलब्धेश्चेति, यस्य यत्र लिङ्गमुपलभ्यते तत् तस्यारम्भकं यथा घटस्य पृथिवी, शरीरेऽपि महाभूतानि धृति संग्रह पक्ति कम्पावकाशदानलिङ्गवन्त्युपलभ्यन्ते इति स्वभावः । विजातीयारम्भनिषेधादिति यद् यतो विजातीयं 15 तत् तस्यानारम्भकं यथा तैजसा अगवः पार्थिवस्यात्रयविनः, शरीरमपि भूतेभ्यो विजातीयमिति व्यापकविरुद्धः । अयं च संशयहेतुः शास्त्रे दृष्ट एव लक्षणादुदाहरणाच नोक्त इति वैकल्यम् ।
एतेनेति असाधारणविरुद्धाव्यभिचारिणोरुदाहरणा सङ्ग्रहेण 'सामान्यपत्यक्षाद् विशेष प्रत्यक्ष द् विशेषस्मृतेश्च संशयः ' [ वै० सू० २ । २ । १९ ] इति सूत्रस्याप्यनयोः 20 संशयहेत्वोर साधारण विरुद्धाव्यभिचारिणोरसङ्ग्रहादव्यापकत्वम् । अत्र चेत्यस्मिन् संशय
सूत्रे संशयहेतुलक्षणस्यातिव्यापकत्वमाह । यस्मात् कुन्दशौक्कथं सामान्यम्, तस्प्रत्यक्षत्वेऽपि रूपादिषु निश्चयो दृष्टः, न संशयः । यथा लक्षणं तथा तस्यापि संशयहेतुत्वमेव प्राप्नोति । तस्माद् यद् अव्यवच्छेदहेतुः सामान्यं तत्प्रत्यक्षत्वे संशयो भवतीति विशेष्य वक्तव्यम् । न तूक्तम् । तस्माद् वैकल्यम् । अव्यवच्छेदहेतुरिति व्यभिचारीत्यर्थः । 25 कथं पुनस्तत् तेषां सामान्यं यावता शुक्लत्वं तद्विशेष एवेति चेत्, नैष दोषः । अनेकसम्बन्धित्वात् तदपि सामान्यसादृश्येन सामान्यम् । अत्र च सामान्यपदार्थ एव सामान्यश्रुत्या न विवक्षितः, यतो गुणदर्शनादपि संशय उपजायते, ततोऽनेक सम्बन्ध्येवात्र संशयकारणमुच्यते । क्वचिद् देशे इति सर्वत्र धूमादित्वस्य सन्देहासम्भवं दर्शयति । C—VT. D. ed. पृ० २१०३ - २१२ । P.ed, पृ० २३८-२४१७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org