________________
चतुर्थ परिशिष्टम् ।
1
स एवाभिप्रायः प्रतीयते । चन्द्रानन्दस्तु आद्येषु सप्तस्वेवाध्यायेषु आह्निकद्वयमभिप्रेतम्, अन्त्येषु त्रिष्वध्यायेषु न कश्चिदप्याह्निक विभागोऽभिमतः । वैक्रमे पञ्चदशे शतके विद्यमानस्य सर्वदर्शनसंग्रहकृतः सायणमाधवाचार्यस्यापि चन्द्रानन्दवदेवाभिप्रायः प्रतीयते, तथाहि — तेन सर्वदर्शनसंग्रहे वैशेषिकदर्शनप्रस्तावे प्रत्यध्यायं प्रत्याह्निकं च विषयविभाग निरूपण प्रसङ्गे सप्तमाध्यायपर्यन्तं प्रत्यध्यायमाह्निकद्वयं निर्दिष्टम्, अष्टम- 5 नवमदशमाध्यायेषु न कश्चिदप्याह्निकविभागो निर्दिष्टः । तद्यथा
66
१३९
―
अथौलूक्यदर्शनम् ॥ १० ॥ इह खलु निखिलप्रेक्षावान् निसर्गप्रतिकूलबेदनीयतया निखिलात्मसंवेदनसिद्धं दुःखं जिहासुस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायमाकलयति, 6 यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति || ' इत्यादिवचनप्रामाण्यात् । परमेश्वरसाक्षात्कारश्च श्रवणमननं- 10 भावनाभिर्भावनीयः, यदाह - ' आगमेनानुमानेन ध्यानाभ्यासबलेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तमम् ॥' तत्र मननमनुमानाधीनम् । अनुमानं च व्याप्तिज्ञानाधीनम् । व्याप्तिज्ञानं पदार्थविवेकसापेक्षम् । अतः पदार्थषट्कम् ' अथातो धर्मं व्याख्यास्यामः [ वै० [० सू० १ । १ । १ ] इत्यादिकायां दशलक्षण्यां कणभक्षेण भगवता व्यवस्थापितम् ।
K
9
Jain Education International
For Private & Personal Use Only
1
I
तत्राह्निकद्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थ कथनकारि । तत्रापि प्रथमाहिके 15 जातिमन्निरूपणम् । द्वितीयाह्नि के जाति विशेषयोर्निरूपणम् | आह्निकद्वययु के द्वितीयेऽध्याये द्रव्यनिरूपणम् । तत्रापि प्रथमाह्निके मूतविशेषलक्षणम् । द्वितीये दिकालप्रतिपादनम् । आह्निकद्वययुक्ते तृतीय आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं प्रथमे । द्वितीयेऽन्तःकरणलक्षणम् | आह्निकद्वययु के चतुर्थे शरीरतदुपयोगि विवेवनम् । तत्रापि प्रथमे तदुपयोगिविवेचनम् । द्वितीये शरीरविवेचनम् | आह्निकद्वयवति पञ्चमे कर्मप्रतिपादनम् | 20 तत्र प्रथमे शरीरसम्बन्धिकर्मचिन्तनम् । द्वितीये मानसकर्मचिन्तनम् | आह्निकद्वयशालिनि पठे श्रौतधर्मनिरूपणम् । तत्रापि प्रथमे दानप्रतिग्रह धर्मविवेकः । द्वितीये चातुराश्रम्योचितधर्मनिरूपणम् । तथाविधे सप्तमे गुणसमवाय प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनम् । द्वितीये तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनं च । अष्टमे निर्विकल्पक सविकल्पक प्रत्यक्षप्रमाणचिन्तनम् । नवमे बुद्धिविशेषप्रतिपादनम् । 25 दशमेऽनुमानमेदप्रतिपादनम् । " इति सर्वदर्शनसंग्रहे ।
1
www.jainelibrary.org