________________
१२५६ जयोदय-महाकाव्यम्
[ २३-२४ अहिन्दुरयता हिंसकत्वाभावता किन्न अवापि प्राप्ता अपितु प्राप्तव । तथा विजतात्मभवा गल्डेन नामाजपक्षिणा कृष्णखगेन अहिं नाम सपं दुरयता निराकुर्वता तेन साम्प्रतं हिन्दुता किन्नावापि किन्तु प्राप्तव ॥२२॥
सुगर्तसमिताङ्कानां कणानां तेन साधुना ।
निष्तुषीकरणायाथ धृता मुसलमानता ॥२३॥ सुगर्तेत्यादि-सुगर्ते उदूखले समितः प्राप्तोऽः स्यान यस्तेषां सुगर्तसमिताङ्कानां 'पक्षे सुष्ठु गच्छतीति सुगः सुगं च तवृतं च यस्य स सुगतॊ यथार्थसत्यवादी स चासो समी समदर्शी तस्य भावस्तत्ता अङ्क उत्सङ्गे येषां तेषां कणानां धान्यानां तथा आत्मज्ञानानां निष्तुषीकर गाय तुषरहितत्त्वाय यहा निर्दोषत्वाय तेन जयकुमारेण अधुना सांप्रतं सा प्रसिद्धा मुसलमानता मुशलस्य नाम काष्ठस्य मानता पक्षे यवनता धृता स्वीकृता ॥२३॥
अन्यापोहतया चित्तलक्षणेऽथ क्षणे स्थितिम् ।
धृत्वा तथागतस्यापि तत्त्वं तेन भविष्यतः ॥२४॥ ___ अन्यापोहेत्यादि-चित्तलक्षणे आत्मद्रव्ये यद्वा चित्तस्यात्मनो लक्षणं संवेदनं यत्र तस्मिन् क्षणे समये अन्यापोहस्य अन्यस्य संसारिप्रपञ्चस्यापोहोऽसद्भावस्तस्य भावस्तया स्थिति कृत्वा आत्मचिन्तनतत्परेण तेन गतस्य भूतस्य तथा भविष्यतश्च तत्त्वं सम्पूर्णमपि वस्तु तेनाऽऽपि परिज्ञातम् तथा अन्यापोहतया अन्यव्यवच्छेदेन कृत्वा चित्तलक्षणे स्थिति धृत्वा क्षणविशरारवो ज्ञानक्षणा एव न त्वन्यत् किञ्चिद् इति मत्त्वा तेन भविष्यतत्तथागतस्य तस्वमपि चाऽऽपि प्राप्तम् ॥२४॥
अर्था.तर-जो विनताका पुत्र था, अहिं दुरयता-सर्पको नष्ट करता था, तथा बुद्धिमान् था, ऐसे अजपक्षी-कृष्णके वाहनभूत गरुड पक्षीने क्या इस समय हिन्दुता-हिन्दूपनको प्राप्त नहीं किया था ? किया था ॥२२॥ ___ अर्थ-उदूखल रूप गर्तमें स्थित धान्यकणोंको तुषरहित करनेके लिये उन जयकुमारने इस समय वह प्रसिद्ध मुसलमानता मुसल-मूषलको सदृशता प्राप्त की थी। ___अर्थान्तर-यथार्थवादिता और समदर्शीपनसे सहित आत्मज्ञानियोंको निर्दोषता प्राप्त करानेके लिये इस समय उन्होंने मुसलमानपना स्वीकृत किया था ॥२३॥ ____ अर्थ-उन्होंने चित्तलक्षण-आत्मद्रव्यमें अथवा आत्माका लक्षणभूतसंवेदन जिसमें विद्यमान है, ऐसे क्षण-समय अथवा उत्सवमें अन्य सांसारिक प्रपञ्चके अभावपूर्वक स्थिति करनेवाले उन जयकुमारने भूत तथा भविष्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org