________________
४७-४८ ]
सप्तविंशतितमः सर्गः
१२३७
तु तावदजग्धावनशन एवोत पुनरियं मूर्तिः शरीरं सा ध्यानस्य जूति: शक्तिर्यस्यां सा नास्ति चेति दृष्ट्वा सुगतपूर्तिः सुगर्तस्य यथा तथा पूर्तिः क्रियते, तथैव सकृदेकवारं दिने समश्नातु खादतु ज्ञानी यथा दातुर्जातु कष्टं नास्तु न च निजस्य जात्वपि चावनतिरवज्ञा स्यात् ॥४६॥ ताम्बूलसंचर्बणतोऽप्यतुष्यन् रदान् विशोध्यान्तरदान् मनुष्यः । सवारुणान् निष्कषदारुणापि कलङ्कयेन्मज्जनतोऽप्यपापिन् ॥४७॥
ताम्बूलेत्यादि-हे अपापिन् ! पापर्वजित ! मनुष्योऽयं जनसाधारणः सोऽन्तरदान् भिन्नभावं गतान् रदान् दन्तान् ताम्बूलस्य पूगदलस्य संचर्बणतः पुनः पुनरास्वादनतः अरुणान् व्याकुलानपि संशोध्यापि पुनरतुष्यन् सन्तोषमगच्छन् सन् सदा नित्यमेव निष्कषदारुणा संघर्षणकाष्ठेनापि कलकलंकुर्यात् मज्जनतोऽपि दन्तशोधकचूर्णतोऽपि कलंकयेत् । 'अरुणो व्याकुलेऽपि च' इति विश्वलोचने । अनुप्रासोऽलकारः ॥४७॥ श्रुतिस्तु सत्त्वानखिलान् समेति द्विजानवध्यान स्मृतिरप्यथेति । द्विजान्वयेष्वेष निजान्वयेषु कुतोऽङ्गुलिस्पर्शनमेतु तेषु ॥४८॥
अतिरित्यादि-श्रुतिर्वेद आगमो वा स त्वखिलानेव सत्त्वान् प्राणिनोऽवध्यान् समेति कथयति, किन्त्वथ पुनः स्मृतिरैहिकागमोऽपि द्विजान् द्विजन्मनस्त्ववध्यान् निवेदयति, अतः पुनरेषागमानुसारी मुनिनिजान्वयेषु स्वसम्बन्धिष्वेव द्विजान्वयेषु द्विजनामधारकेषु तेषु दन्तेषु किलागुलिस्पर्शनमपि कुत एतु ? न कुतोऽपि । मुनिर्दन्तमञ्जनादिकं न करोतीति ॥४८॥
को उत्कण्ठा-अभिलाषा तो उपवासमें ही रहती है, परन्तु आहारके बिना शरीरमें ध्यानकी शक्ति नहीं रहती, इसलिये उदररूपी गर्तकी पूर्ति करता है। ज्ञानी मनुष्यको दिनमें एक बार ही भोजन करना चाहिये, जिससे दाताको कष्ट न हो और अपनी कभी अवज्ञा न हो ॥४६।।
अर्थ-हे निष्पाप ! पापरहित ! साधारण मनुष्य हिलते हुए तथा बार-बार पान चबानेसे व्याकुलताको प्राप्त हुए दाँतोंको निकालकर भी संतुष्ट नहीं होता, किन्तु दातौन और मजनसे उन्हें अलंकृत करता है ।।४७॥
अर्थ-वेद अथवा आगम समस्त प्राणियोंको अवध्य कहते हैं और स्मृति भी द्विजोंको अवध्य बताती है। फिर यह मुनि द्विजनामधारी अपने सम्बन्धियोंदाँतोंपर अंगुली क्यों उठावे, अर्थात् अंगुलिसे उनका स्पर्श क्यों करे । तात्पर्य यह है कि मुनि दन्तधावन नहीं करते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org