________________
जयोदयमहाकाव्यम्
चतुर्दश सर्गः 'अथ तीरारामे सरिताया रुचिरासीन्महतो जनताया।
आत्मभूतनयताऽधिगमाय सुललिततालान्वितोत्सवाय ॥१॥ टीका-अथानन्तरं जनताया रुचिरभिलाषा महती बहुला अपि च नारदस्य वीणा चासीत् । क्वासीत् ? सरिताया नद्यास्तीरारामे प्रान्तोद्याने । किमर्थम् ? आत्मने यो भूतो हितकरो वायुस्तस्य नयः समीचीनतया सेवनं तत्ताया अधिगमाय प्राप्तये वायुसेवनार्थम् । एवमात्मभूतनयो नारदस्तत्ताधिगमाय पुनरपि सुललिता मनोहरा ये तालास्ताडवृक्षाः, उपलक्षणात् सर्वेऽपि पादपास्तैः, पो लयमूर्च्छनादिसंगीतशास्त्रोक्तास्तालास्तैरन्वितो युक्तो योऽसावुत्सवस्तस्मै। समासोक्तिरलंकारः।।
असुगतवैभववानिव तेन तत्र तथागतसमीरणेन । समजनि सरतविचारविशिष्टो दूरतोऽपि चायातः शिष्टः ॥२॥ टीका-तत्र दूरतो दुष्टरतयुक्तः स सुरतस्य विचारेण विशिष्ट इति विरोध इव
अर्थ-तदनन्तर नदीके तटवर्ती उद्यानमें आत्महितकारी वायुका अच्छी तरह सेवन करने तथा अत्यन्त मनोहर ताड़ आदि वृक्षोंके मध्य क्रीड़ा करने के लिये जन समूहकी महती-बहुत भारी अभिलाषा हुई। अर्थान्तर-आत्मभूतनयता नारदपनेकी प्राप्तिके लिए एवं अत्यन्त सुन्दर तालों-संगीतमें उपयुक्त स्वर-मूर्च्छनाओंके उत्सवके लिए महती-नारद की वीणा प्रकट हुई। यह समासोक्ति अलंकार है ॥१॥
अर्थ-उस तटोद्यानमें आया हुआ शिष्ट-सभ्य जन समूह यद्यपि दूरत-दुष्टरत-कुत्सित क्रीड़ा वाला था तो भी सुरतविचारविशिष्टः-अच्छी १. हिन्दी टीकाकारक । मङ्गलाचरण
सारदां शारदां वन्दे कर्मकल्मषहारिणीम् ।
घारिणी गुणभूषाणां विघ्नसन्दोहवारिणीम् ॥ २. 'नारदस्य तु वीणायां महती स्यात् पृथौ त्रिषु' इति विश्वलोचनः । ३. आत्मभूः ब्रह्मा तस्य तनयः पुत्रो नारदस्तस्य भावस्तत्ता तस्या अधिगमाय प्राप्तये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org