________________
१२२१
६-८]
सप्तविंशतितमः सर्गः महत्त्वदायक भवति, प्रवृत्तिस्तु जन्ममरणरूपसंसाराय स्यादिति दिक् । इतोऽन्यथा परथा यो निवेदः कथनक्रमः सोऽस्त्यवेदो वेदात्सम्यग्ज्ञानादन्य इति प्रवेदनेन समुचितज्ञानेन भवानखेदोऽस्तु सुखी भवतु । अनुप्रासोऽलंकारः ॥५॥ क्षमो न भोक्तुं ममतां तु भोगी रहस्यमङ्गीकुरुतेऽत्र योगी। यथोदितं लङ्घनमेति रोगी नियोगिने तस्य समस्ति नो गीः ॥६॥
क्षम इत्यादि-भोगी भोगानामभिलाषावान् स तु ममतां भोगेषु सम्भवन्तं रागं भोक्तुं नमो न भवति, किन्त्वत्र यत्किञ्चिद् रहस्यं तद् योगी जन एवाङ्गोकुरुतेऽतः स एव रहस्यं योगोपयोगरूपमेकान्तमङ्गीकुरुते यथाऽसौ रोगी जनोऽन्नं प्रत्यरुचिमान् स एव यथोदितं लङ्घनमेति, स्वीकरोति किन्तु नियोगिने पाणिग्रहणकर्मणि दीक्षिताय तस्य लङ्घनस्य गीर्वागपि नो समस्ति नैव भवति । दृष्टान्तोऽलंकारः ॥६॥ पथा प्रथा येन जनस्य दृश्याऽन्यथा कथा भो यतिनस्तु शस्या । पूर्वस्य यत्संग्रहणानुरागी त्यागं परत्राह विरागतां गौः ॥७॥
पथेत्यादि-भो जय ! येन पथा मार्गेण जनस्येति गृहस्थलोकस्य प्रथा ख्यातिः समवलोक्यते यतिनः संयमिनो जनस्य तु पुनरतोऽन्यथा कथा भवति विभिन्नप्रकारैव वार्तास्ति । यद्यस्मात्कारणात् पूर्वस्य गृहस्थस्य संग्रहणमुपश्चर्याकरणमनुरागश्चती द्वावेव भवतः, किन्तु वस्त्रसंयमिनि जने त्यागं विरागतामेव चाह वदति गीर्वाणोति ॥७॥ महद्धिराराध्यतमा शमारात् समर्पयन्ती निरवद्यधारा । न यत्र संसारिजनप्रवृत्तिरलौकिको भातु मुनेहि वृत्तिः ॥८॥
संसार बढ़ाने वाली है । इससे अन्य प्रकार कथन करना अवेद-अज्ञान है, आप यथार्थ ज्ञानके द्वारा खेदरहित हों-सुखी होवें ॥५॥
अर्थ-भोगी मनुष्य भोगविषयक ममताको छोड़नेके लिये समर्थ नहीं होता, परन्तु योगी त्यागके रहस्यको स्वीकृत करता है। जैसे रोगी मनुष्य कहे अनुसार लंघनको प्राप्त होता है, परन्तु विवाह कार्य में दीक्षित मनुष्यके लिये लंघनकी वाणी भी नहीं है, अर्थात् लंघनकी बात भी उसे रुचिकर नहीं होती ।।६।। ____ अर्थ-हे जय ! जिस मार्गसे गृहस्थ जनकी ख्याति देखी जाती है, संयमी जनकी कथा उससे विभिन्न है, क्योंकि गृहस्थ जनके संग्रह और विषयानुराग दोनों होते हैं, परन्तु संयमी जनके त्याग और विरागता होती है, ऐसा वाणी (शास्त्र) कहती हैं ॥७॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International