________________
जयोदय-महाकाव्यम्
[४२-४४
कुरुराट्पुरुराडुपाश्रयं परमार्थी परमाप्तवानयम् । निधिवद् विधिबन्धुरोदयी समभूत्तेन तवा मुदन्वयी ॥४२॥
कुरुराडित्यादि-परमोऽर्थोऽपवर्गलक्षणो यस्य स परमार्थी कुरुराडयं प्रकरणगतो जयकुमारः परमुत्कृष्टं पुरुराजो नाभेयस्योपाश्रयं समवसरणनामानं निधिवन्निधानमिव वाञ्छितकारकमाप्तवान् यतो विधेर्देवस्य बन्धुरो रमणीय उदयो यस्य स विधिबन्धुरोवयी ततः स तेन तदा समवसरणलोकनेन मुदन्वयी प्रसन्न : समभूत् । उपमानुप्रासश्चालंकारः ॥४२॥
सहजा सह जातिवैरिभिहदि मैत्री यदिमधूताङ्गिभिः ।
यदिवाऽयदिवाकरो जिनः क्व तदा शात्रवसाद्रवोऽपि नः ॥४३॥ - सहजेत्यादि-यत्राहदाश्रमेऽङ्गिभिरिमैविडालमूषकाविभिर्जातिवैरिभिरपि सह यद्यस्मात् कारणादर्हतः प्रभावाद हदि सहजा निसर्गजा मैत्री स्नेहवृत्तिभृताङ्गीकृताऽऽसीत् । यदि वा यत्रायः शुभावहो विधिः स एव दिवा दिवसस्तत्करोति यः सोऽयदिवाकरो जिनो भगवान् वर्तते तदा पुनस्तत्र शात्रवसाच्छत्रुतासम्बन्धी रवः शब्दोऽपि नोऽस्माकं मध्ये क्व सम्भवेन्नैव सम्भवेदिति काकूक्तिः ॥४२।।
अमरैरमरैकवेदिभिः क्रियते कर्मसुमर्मभित् ।
मुहुरेव जयेति शार्मणं परमुच्चाटनमेव कार्मणम् ॥४४॥ अमरैरित्यादि-यत्रामरस्पति रलयोरभेवादमलस्यैवैकस्याहतो भगवत एव विभिः पण्डितैरनुज्ञानधरैरमरैर्देवैः कर्मणोऽदृष्टस्य सुमर्मवेदि मर्मस्थलं भिनत्तीति तत् तथा शर्मसम्बन्धी णो ज्ञानं येन तच्छामणं शर्मदायक मुहुरेव वारं वारं जय जयेति
___अर्थ-मोक्षरूप परमार्थकी इच्छा रखने वाले कुरुराज-जयकुमार निधिके समान मनोरथको पूर्ण करने वाले भगवान् वृषभदेवके समवसरणको प्राप्त हुए । कर्मोदयकी अनुकूलतासे युक्त जयकुमार समवसरणके अवलोकन मात्रसे प्रसन्न हो गये ॥४२॥ __ अर्थ-अरहन्त देवके जिस समवसरण में जन्मविरोधी इन जीवोंने परस्पर नैसर्गिक प्रीति हृदयमें धारण की है, अथवा भाग्यदिवाकर अर्हन्तदेव जहाँ विराजमान हैं, वहाँ हमलोगोंके बीच शत्रुता सम्बन्धी शब्दका होना भी क्या सम्भव है ? अर्थात् नहीं ॥४३॥ __अर्थ-जिस समवसरणमें अमरैकवेदी-अर्हत् स्वरूपके ज्ञाता देवोंके द्वारा बार बार वह जयजयकार किया जाता है, जो कर्म-अदृष्टके मर्मका भेदन करने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org