________________
६१-६२ ]
द्वाविंशः सर्गः
१०३७
विस्तृतेत्यादि - तस्मिन् जयदेवेऽम्बर इव वस्त्रवद् विस्तृतं सुपरिणाहं चरितं यस्य तस्मिन् भवति सति सा स्मितस्य मृदुहास्यस्य रश्मिर्यस्यास्सा स्मितरश्मिः सुलोचना सतां गुणानां धैर्यादीनां तन्तूनां गणिनी गणनाकर्त्री अधिकारिणी वासीत् । ईशे तु पुनर्जल इव पानीयवत् तृषोऽपहारी तस्मिन् पिपासापहारके समस्तप्रकाराभिलाषापरिपूरके भवति सा स्वादुतेव रुचिहेतुरासीत् ॥ ६०॥
समालोचकत्वं दधतीवामुष्मिन्साभूद् रूपजीवा । मृदुवावित्रपरायणे सदाप्युच्चैस्तनढक्कासु सम्पदा ॥ ६१ ॥
समालोचकत्वमित्यादि - तस्मिन् जयकुमारे समालोचकत्वं सम्यकप्रकारेण दर्शकत्वं वधति अनुरागपूर्वकं पश्यति सति सा रूपमेवाजीवा जीविका यस्यास्सा रूपाजीवा विलासिन्यभूत् । तथैव तस्मिन् मृदु च तद् वादित्रं च मृदङ्गादिकं तत्र परायणस्तत्परो वादनार्थमुद्युक्तस्तस्मिन् सति अपि पुनस्सा चोच्चैरुन्नतशीलो स्तनावे व ढक्का नक्कार इति नाम वाद्यं तस्याः शोभना या सम्पत्तया सवालंकृताभूत्तस्यानुकूला ॥ ६१ ॥
भुवमनुमातुममुस्मिन् लम्बे साह हेमसूत्रं स्वनितम्बे ।
यदि गुणिनि स्वर्गेऽस्य विचारो निजमम्बरमियमहोद्दधार ॥ ६२ ॥ भुवमित्यादि - अमुष्मिन् जयकुमारे भुवं धरामनुमातु लम्बे सति विचारतो विस्तृते सति सा सुलोचना स्वनितम्बे कटीप्रदेशे हेमसूत्रं काञ्चीगुणमाह नातोऽधिकविस्तृतं घरातलं यादृशं मूल्यं मम कक्षाया न तादृक् पृथिव्या भाव्यमिति । यदि चेदस्य जयकुमारस्य विचारो गुणिनि गुणशालिनि स्वर्गेऽभूत्तदेह प्रसङ्गे चेयं सुलोचना निजमम्बरं वस्त्र
अर्थ - मन्दहास्यरूप किरणोंसे युक्त वह सुलोचना अम्बर-वस्त्र के समान विस्तृत चरितके धारक जयकुमारके सद्गुण- उत्तम गुणरूपी तन्तुओंकी गणना करने वाली थी और ईश-पति जयकुमारके विषयमें जलकी तरह तृषा - भोगाकांक्षा अथवा पिपासाको हरने वाली थी और स्वादुता - स्वादिष्ठताके समान उनकी रुचिका कारण थी ॥ ६०॥
अर्थ -- - जब जयकुमार उसे रागभावसे देखते थे तब वह रूपाजीवा - विला सनी हो जाती थी, अर्थात् विलासिनीको तरह उनके रागभावको बढ़ाती थी और जब वे मृदङ्ग आदि कोमलवादित्र बजाने में तत्पर होते थे तब वह ढक्कानक्कार नामक वादित्रको सुन्दर शोभा बढ़ाती थी ॥ ६१ ॥
अर्थ - यदि कदाचित् जयकुमार पृथिवीका प्रमाण करनेके लिये विचार करते थे तो वह सुलोचना अपने नितम्बपर स्थित करधनीका उल्लेख कर देती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org