________________
६८-७०] एकविंशतितमः सर्गः
९९५ पवनेत्यादि-सारथी रथवाहकः स इदं रथराजस्य वितानकं समावरणवस्त्रं तत् पवनस्य वायोः प्रतिभावः प्रभावो यत्र स पवनप्रतिभावी ततोऽयात् प्रसङ्गात् पथि मार्गेपरितः सर्वत एव धूसरितोऽङ्कः स्थलं यस्येति शङ्कया मनस्तर्कयाऽधुना परिशोधयति स्म ॥६७॥
मनुजास्तनुजायनश्रमं किमपीमं नहि मेनिरे तदा । निजपत्तनदत्तनर्मणां परिवारैः परिवारिसम्पदाम् ॥६८।।
मनुजा इत्यादि-मनुजा गमनादायातास्ते तदा निजपत्तनस्य नगरस्य दत्तं समुक्तं नर्म समाचारो यस्तेषाम्, परिवारिणां पितृपुत्रादीनां सम्पत् संपर्कः परिचयो वा येषां तेषां परिवारैः समूहैस्तदा तनौ जायते योऽयनस्य गमनस्य श्रमस्तमिमं किमपि नहि मेनिरे । प्रासङ्गिकलोकैः कुटुम्बस्य कुशलसमाचारं श्रुत्वा मार्गस्य श्रमो दूरं गतोऽभूदिति.॥६८।।
चरणद्वितयेन पत्तिभिः पदवी संसृतिवद् दवीयसी। स्वरमाभिगमाभिलाषिभिः सहजेनाप्यतिवतिता रसिन् ॥६९॥
चरणेत्यादि-हे रसिन् पाठक ! शृणु, संसृतिवद् दवीयसी दीर्घतमापि पदवी पद्धतिः सा स्वस्वरमया स्वस्त्रिया सहाभिगमः समागमस्तस्याभिलाषो येषां तैः पत्तिभिः पदचारिभिरपि जनैः सहजेनानायासेन चरणद्वितयेन पावद्वयेनैवातिवर्तिता व्यतीता ॥६९॥
हृदयस्थितकामपावकं कलयन्नञ्चलकैः किलावृतम् । वनिताजन एकतस्तरां तनुते वातति स्म साम्प्रतम् ॥७०॥
अर्थ-नगरमें प्रवेश करते समय सारथिने वायुके प्रभावसे युक्त प्रसङ्गसे रथराजके आवरण वस्त्रको धूलिधूसरित होनेकी शङ्कासे साफकर लिया, अर्थात् उसकी धलि झटकार दी ॥६७॥
अर्थ-उस समय, जिन्होंने अपने नगरका समाचार सुनाया है, ऐसे पारिवारिक लोगोंके संपर्कमें रहनेवाले लोगोंके समूहसे, यात्राकर आये हुए मनुष्योंने शरीरसम्बन्धी इस श्रमको वृछ भी नहीं माना था।
भावार्थ-स्वागतके लिये आये हुए लोगोंसे अपने-अपने कुटुम्बी जनोंका कुशल समाचार जानकर प्रवाससे आये हुए लोग मार्गके सब श्रमको भूल गये ॥६८॥ . ___ अर्थ-हे रसिक पाठक ! सुनो, अपनी स्त्रीके समागमकी अभिलाषा रखने बाले पैदल सैनिकोंने संसारके समान अत्यन्त दीर्घ मार्गको अनायास हो दो पैरोंसे व्यतीतकर दिया ।।६९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org