________________
एकविंशतितमः सर्गः शासनं समुपगम्य भूपतेः पत्तनं प्रति पुनर्विनिर्गतेः । इत्थमाह समनीकिनीश्वरो गत्वरत्वसमयातिसत्वरः ॥१॥
शासनमित्यादि-गत्वरस्य गमनशीलस्य यः समयः सिद्धान्तोगमनकरणं तस्मिन्नतिसत्वरः शीघ्रताकरः सन् समनीकिनीश्वरः सेनानायकः स भूपतेर्जयकुमारस्य शासनमाज्ञां समुपगम्य लब्ध्वा, कि तच्छासनम् ? पत्तनं गजपुरं प्रति विनिर्गतेर्गमनकरणस्य स पुनः सेनापतिरित्थं निम्नोक्तमाह । अनुप्रासोऽलङ्कारः ॥१॥ सज्जिताः सपदि हस्तिसंचयाः स्युश्च कश्यकुथसंयुता हयाः । युग्यसंयुतयुगा अथो रथा गन्तुमाग्रहधराः सता पथा ॥२॥
सज्जिता इत्यादि-सता पया समीचीनमार्गेण गन्तुमानहषराः सपदि हस्तिसंचयाः सज्जिता घण्टाविभिरलंकृताः स्युः, कश्यकुथेन पृष्ठासनेन संयुता हयाः स्युः, युग्याभ्यां युगं धतुं योग्याभ्यां हयाभ्यां संयुतानि युगानि येषां ते रथाः स्युर्भवेयुः। अथो सुभगसंवादसूचने । आयक्रिया वीपकालंकारः ॥२॥
सर्व एव कटिबद्धतामति सद्य एव निजपत्तनं प्रति । यान्तु सम्प्रति हिगम्यते विभोर्जायते समववाद एष भोः॥३॥ सर्व इत्यादि-सर्वे जना एवातिसवः शीघ्रमेव निजपत्तनं हास्तिनागपुरं प्रति कटिबसता यान्तु गमनायोचताः सन्तु । भो लोकाः शृणुत, सम्प्रति हि गम्यते । विभोः स्वामिन एष एव समवावः समाचारो जायते ॥३॥
अर्थ-गतिशील मनुष्यके गमनरूप सिद्धान्तमें शीघ्रता करनेवाले सेनापतिने 'हस्तिनापुरकी ओर चलो' इस प्रकार राजा जयकुमारकी आज्ञा पाकर उनसे इस प्रकार कहा ।।१।।
अर्थ-समीचीन मार्गसे चलनेके लिये उतावली करनेवाले हाथियोंके समह शीघ्र ही सजाये जावें, घोड़े पलानसे सहित किये जावें और रथ समर्थ-शक्तिशाली घोड़ोंसे युक्त किये जावें ॥२॥
अर्थ-अरे लोगों ! सुनो, अपने नगर हस्तिनागपुरकी ओर चलनेके लिये सभी लोग बहुत शीघ्र कटिबद्धताको प्राप्त होओ, कमर कसकर तैयार होओ। अभी चलना है, यह स्वामीका आदेश है ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org