________________
११-१२ ]
शतशः स्फुरत्किरणभृन्नखाग्रवत्करसंयुगं भरत चक्रिणोऽभवत् । रविविम्बशोभि सहसोऽभिमातरं शशिशोभनं जयमुखं समुद्धरत् ॥ ११ ॥
शतश इत्यादि - भरतचक्रिणः शतशः स्फुरत्किरणभृन्नखाग्रवत्क रसंयुगं परस्परं संयुज्य सहसोऽनुभावाद् रविविम्बशोभि भूत्वा शशिशोभनं जयमुखं समुद्धरत् तदभिमातरमुपपृथिवीतलमभवत् ॥ ११॥ विबभूव भूः परिकृतेरपीति यत् प्रतिपत्कलोदयकरी कवेरियम् । समभात्तमां सुरुचिभागिहोत्तमा सदसः प्रहर्षणगणश्रिया ममा ॥ १२ ॥
विबभूवेत्यादि - अपि किञ्च, इति पूर्वोक्तप्रकारेण परिकृतेः परिकरणाद् व्यवस्था वशादिति यावत्, पद् पद् प्रतीति प्रतिपद् पदे पदे इत्यर्थः, कलानां चातुरीणामुदयकरी उन्नमनकारिणी कविदुषो राजशासनपारंगतस्य चक्रिणो भरतस्येयमेषा भूमंही विबभूव विशिष्टगुणोपेताभूत् । अथ या भूः कलायाः चन्द्रषोडशभागस्योदयकरी, किच कवेः शुक्रग्रहस्योदयकरी प्रतिपत् पक्षाग्रणी स्तिथिर्बभूव सा तदा सुरुच सुमेलनं भजतीति सुरुचिभाग् उत्तमोत्कृष्टा सदसः सभायाः प्रहर्षणस्य प्रमोदस्य गणः समूहस्तस्य श्रियां शोभायां विषये न विद्यते मा परिमाणं यस्याः तथाभूता अभा प्रमाणरहिताऽपरिमितशोभायुक्ता सती समभात्तमामतिशयेन शुशुभे । अथ च या पूर्वोक्तप्रकारेण सूर्यरूपस्य चत्रिवतिहस्तयुगलस्य चन्द्ररूपस्य जयकुमारभालस्य च युगपत्सद्भावात् सदसः सभायास्तत्र स्थितसभ्यानां प्रहर्षणगणश्रियां हर्षसमूहशोभायां सत्यामुद्गतं प्रकटितं तमं तिमिरं यस्यां तयोत्तमा अमा-अमावास्या समभात्तमां शुशुभेतराम् ॥ १२॥
विशतितमः सर्गः
अर्थ — सैकड़ों देदीप्यमान किरणोंको धारण करने वाले नखाग्रसे युक्त भरत चक्रवर्तीका हस्तयुगल तेजसे सूर्यके समान सुशोभित हो रहा था । जब चक्रवर्तीने अपने दोनों हाथोंसे पृथिवी तलपर विनत जयकुमारके मस्तकको उठाया, तब ऐसा जान पड़ता था मानों सूर्य चन्द्रमाको उठा रहा है ॥ ११ ॥
Jain Education International
९३५
अर्थ - इस प्रकारकी व्यवस्थासे बुद्धिमान् चक्रवर्ती की जो पृथिवी प्रतिपद्डग डगपर कलोदयकरी - चतुराईकी उन्नति करने वाली होती हुई विशिष्टविशिष्ट वैभव से युक्त हो रही थी । अथ च जो पृथिवी चन्द्रमाकी एक कलाका उदय करने वाली प्रतिपद् पडिवा बन रही थी, वही उस समय सुरुचिभाक् - उत्तम दीप्तिको प्राप्त, उत्तम तथा सभाके हर्ष - समूहकी शोभाके विषय में अमाप्रमाणसे रहित सुशोभित हो रही थी, वही इस समय चक्रवर्तीके करयुगलरूप सूर्य और जयकुमारके भालरूप चन्द्रमाके युगपत् मेलसे उत्तमा- तिमिरपूर्णा अमा-अमावस बन गई थी || १२ ||
For Private & Personal Use Only
www.jainelibrary.org