________________
९१२ जयोदय-महाकाव्यम्
[५२-५३ नामाहत्परमेष्ठो तस्य गुणानां प्रकारो यत्र वर्तते स तत्त्वगुणप्रकारः । अर्हत्परमेष्ठिगुणवाचक इत्यर्थः। ह्रींकारमध्ये यो रकारः स रक्तवर्णो यश्च हकारः स हरितवर्णो यश्च स बिन्दुसहित इन्दुरर्धचन्द्राकारः स धवलो धवलवर्णः इत्थं स यद्यपि रक्त-हरित-धवलभेवेन त्रिवर्णो वर्तते, तथापि स त्रिकालं त्रिकालमध्ये काल: कृष्णवर्णः पीतः पीतवर्णश्चेति विरोधे परिहार उच्यते। इत्थं त्रिवर्णोऽपि ह्रींकारक इतोऽत्र काले साविभक्तिकस्तसिल्प्रत्ययः, सन्ध्यावन्दनसमय इत्यर्थः। त्रिकालं प्रातमध्याह्नसायंभेदात् त्रिकालम्, अत्यन्तसंयोगा द्वितीयाप्रयोगः । इतः प्राप्तः सस्तुतो जयकुमारेणेति शेषः । जयकुमारो 'ह्रींम्' इत्येतस्य बीजाक्षरस्य स्तवनं चकारेति यावत् ॥५१॥
अहं समहं विभवैकभूपे नमो न मोहाय परत्ररूपे । मन्त्रं पवित्रं स जयोऽप्यपापः स्वयं च विश्वस्मरणीयमाप ॥५२॥ अहमित्यादि-अहमित्येतत्पदं विभवः सम्पत्तिसम्भवोऽथवा तु भवाभावः स एव भूपः प्रधानस्वरूपस्तस्मिन् समहं योग्यं तथा नम इत्येवं पदं परत्ररूपे स्वात्मनोऽन्यत्र नमोहाय निर्मोहपरिणामाय भवति । एवं किल 'ॐ ह्रीं अहं नमः' इत्येवं पवित्र मन्त्र विश्वेनापि स्मरणीयमाराधनीयं स्वं शोभनीयं सोऽपापः पापाचाररहितो जयो नाम भूपाल आप प्राप्तवान् तं जजापेति ॥५२॥ महीं षडङ्गां नवकोटिसिद्धां स्मृत्वाम्बुजेष्टि षडरहूंदीद्धाम् । अष्टाधिकं विशतियुग्मकंच सम्बिभ्रतीमाप दलप्रपञ्चम् ॥५३॥
महीमित्यादि-महीं पृथ्वीमिमां नवकोटिभिः संरम्भसमारम्भास्त्रयः कृतकारितानुमननातीति त्रीणि मनोवचनकायाश्चेति त्रय इत्येवं नवकोटिभिः सिद्धा सम्पादितां
है । ह्रींकार में जो र है वह रक्त-लाल रंगका वाचक है, ह. हरित रंगका बोधक है और जो बिन्दु सहित अर्धचन्द्राकार है, वह धवल-श्वेत वर्णका वाचक है, इस तरह ह्रीं यद्यपि तोन व्यञ्जनों की अपेक्षा तीन वर्णका है, तथापि वह तीनों कालों में काला और पोत-पीतवर्ण वाला है, इस प्रकार विरोध आता है। उसका परिहार इस प्रकार है कि इतः काले-सन्ध्या वन्दनके समय जयकुमार ने इस ह्रींकारको इतः प्राप्त किया, अर्थात् उसकी स्तुति की । काले+ एवं तथापि + इतः, इस प्रकारको सन्धि निकालना चाहिये ।।५१॥
अर्थ-'अहं' यह बीजाक्षर भव-संसारके अभावरूप प्रमुख कार्यके योग्य है तथा नमः पद स्वकीय आत्माके सिवाय अन्य पदार्थों में मोहके अभावका वाचक है। इस तरह पापाचारसे रहित जयकुमारने 'ॐ ह्रीं अहं नमः' इस मन्त्रको, जो कि सबके स्मरणके योग्य है, स्वयं प्राप्त किया था-जपा था |५२।। __ अर्थ-तदनन्तर राजा जयकुमारने अपने हृदयमें छह अरोंसे देदीप्यमान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org