________________
८८६ जयोदय-महाकाव्यम् .
[ १०३-१०४ पुनः पुनः परिमाष्टि स्म परिमार्जितां करोति स्म । तेन तया वध्वालिषु सतीषु लज्जा त्रपा आपि प्राप्ता । हास्यसमर्पणाऽप्यापितां तथा कुर्वन्तों दृष्ट्वा सख्यो जहसुरिति भावः ॥१०३॥ विधुबन्धुरं मुखमात्मनस्त्वमृतैः समुक्ष्यार्काङ्कितं
कृत्वा कर मृदुनांशुकेन किलालकच्छविलाग्छितम् । भासुरकपोलतलं पुनः प्रोज्छयागुरुपत्राङ्कभाभावेन विस्मितकृत् स्वतोऽभादपि तदा नितरां शुभा ॥१०३॥
(विभातनामषडरचक्रबन्धः) विधुबन्धुरमित्यादि-तदा सा शुभा सुलोचना आत्मनः स्वस्य अर्काङ्कितं सूर्यप्रभाभसितं विधुबन्धुरं शशाङ्कसुन्दरं मुखममतैः समुक्ष्य करं हस्तं किलालकेश्चूर्णकुन्तले लाञ्छितं कृत्वा मदुना कोमलेनांशुकेन वस्त्रण प्रोञ्छच पुनश्च भासुरकपोलतलं वेदीप्यभानगण्डप्रदेशमगुरुपत्राङ्कस्य भा दीप्तिस्तस्या भावेन सद्भावेन विस्मितकृद् विस्मयकारकं प्रोञ्छच स्वतः स्वयं नितरामभाद् बभौ ॥१०३।। श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं
वाणीभूषणमस्त्रियं घृतवरी देवी च यं धीचयम् । एषाद्रिविसंविकासितपदाम्भोजातशोभावती
यात्यष्टादशसंख्ययानुविदितं सर्गे तवीया कृतिः ॥१०४॥
कपोल तलमें जब केशोंको कान्ति पड़ी, तब उसने उसे अगुरु पत्रसे चिह्नित जैसा मान साफ किया। यह करते हुए उसे विस्मय हो रहा था कि बार-बार साफ करने पर भी काला दाग दूर नहीं हो रहा है। इस तरह यह सब करती हुई अत्यन्त सुशोभित हो रही थी॥१०३॥ इति वाणीभूषणब्रह्मचारिभूरामलशास्त्रिविरचिते जयोदयकाव्ये
प्रभातवर्णनो नामाष्टादशः सर्गः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org