________________
२३-२४]
अष्टादशः सर्गः
८७
चन्द्राश्मतः प्रचलवम्बुभरं चकोर
दृग्भ्यां समादृतमनसुरूपचौर । कोकद्वयोक्तहवयस्य तथैव पति
राप्नोति किन्न रविकान्तमणिः स्विदति ॥२३॥ चन्द्राश्म इत्यादि-अनङ्गस्य कामदेवस्य यत् सुरूपं सौन्दर्य तस्य चौरस्तत्सम्बुद्धो, हे मदनादपि मनोहर जयकुमार ! चन्द्राश्मतश्चन्द्रकान्तमणितः प्रचलत्प्रक्षरत् चकोरदृग्भ्यां जीवंजीवनयनाभ्यां समादृतं सम्मानितम् अम्बुभरं जलप्रवाहो यथा कोकद्वयस्य विरहसंतप्तस्य चक्रवाकमिथुनस्य यदुक्तं कथितं हृदयं तस्य यथा वह्निरभूत् संतापहायकं जातम्, स्वित्पुनरह्नि दिवसे रविकान्तमणिः सूर्यकान्तमणिस्तथैव चन्द्रकान्तमणिश्चोतत्सलिलमिव वह्निः किन्नाप्नोति ? विरहानलसंतप्तस्य चक्रवाकमिथुनस्य चन्द्रकान्तमणिप्रक्षरज्जलमपि वह्निवत्संतापदायकमासीत् । विवसे तु संयुक्तस्य चक्रवाकमिथुनस्य सूर्यकान्तमणिप्रस्फुटितोऽनलो न संतापदायको वर्तत इति भावः ॥२३॥ निर्यातु जातु न तमोप्यपराधकारि
नागभ्युदेति भगवान् स तमोपहारी। इत्यर्गलायितमुदारविचारतत्या
चक्राङ्गनाममिथुनेन न किं जगत्याम् ॥२४॥ निर्यात्वित्यादि-वियोगकारणात्तमश्चक्रवाकमिथुनस्यापराधिकारि। अपराधि तमो दृष्ट्वा चक्रवाकमिथुनं विचारयति-अपराधकार्येतत्तमो जातुन निर्यातु न पलायताम्, तमोपहारी तिमिरापहारी स भगवान् ऐश्वर्यवान् सूर्यः नाग झटिति, अभ्युदेति सम्मुखमायाति, इत्युदारविचारतत्या विमर्शसरण्या चक्रवाकमिथुनेन रयाङ्गयुगलेन जगत्यां पृथिव्यां किं नार्गलायितमर्गलवदाचरितम् । यावन्न्यायाधिकारी न समागच्छति
अर्थ-रात्रिके समय चन्द्रकान्त मणिसे झरने वाला एवं चकोर पक्षीके नेत्रोंसे निकला जल जिस प्रकार चक्रवाक युगलको अग्नि रूप था, उस प्रकार दिनमें सूर्यकान्तमणि अग्नि रूप क्यों नहीं हो रहा है। तात्पर्य यह है कि विरही प्राणीको जल भी संतापकारी होता है और संयोगी प्राणीको अग्नि भी संतापकारी नहीं होता ॥२३॥ __ अर्थ यह अपराधकारी हमारे वियोगको करने वाला अन्धकार कहीं भाग न जावे, अन्धकारको नष्ट करने वाला भगवान् सूर्य शीघ्र ही आने वाला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org