SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७१८ जयोदय-महाकाव्यम् [ २५-२६ एष सम्मुखे वर्तमानः व्यक्ता स्फुटीकृता चासाबुडुनामैव दन्तावलिर्येन स प्रसिद्धप्रायोऽन्धकारो नाम निशायां चरतीति निशाचरः पिशाच इव धैर्यधनस्योपलोपं करोतीति स विश्वमात्रस्य भयकारक इत्यर्थः, विलोक्यते स्पष्टमेव दृश्यते, अन्धं करोतीति अन्धकारो यं दृष्ट्वा किं कर्तव्यतामूढतयाऽखिलोऽपि जनोऽन्ध इव भवतीति यावत् ॥२४॥ सन्ध्यामिषेणापरशैलेसानुं प्रज्वाल्य यन्नश्यति चित्रभानुः । तमांसि धूमाः प्रसरन्ति नो चेद्यामश्रुसङ्घो भमिषात्कुतश्चेत् ॥२५॥ टीका-चित्रभानु म सूर्य एव वह्निः सन्तापकारकत्वात् स सन्ध्यामिषेण सायंकालकृतारुणिमच्छलेन कृत्वाऽपरशैलस्यास्ताचलस्य सानु वनं प्रज्वाल्य भस्मसात्कृत्वा यद् यस्मात्कारणान्नश्यति वनं दग्ध्वा स्वयमपि शाम्यति ततोऽमी धूमा एव प्रसरन्ति आकाशे व्याप्नुवन्ति तमांसीतिनामतः ख्यातप्रायाः। नो चेदन्यथा पुनर्भमिषो नक्षत्रच्छलधारकोऽश्रुसङ्घो वाष्पजलसमूहश्च कुतः कारणात् द्यामाकाशं न चेत् पूरयेत् यः पूरयति तावत् ॥२५॥ नक्षत्रकाचांशतताग्र एष शालो विशालोऽस्तु तमोनिवेशः । आज्ञामतिक्रम्य रतीश्वरस्य निर्गच्छतां यः प्रतिषेधदृश्यः ॥२६॥ टीका-एष तमोनिवेशोऽन्धकाररूपधारकः नक्षत्राण्येव काचांशा दर्पणखण्डास्तैस्ततं व्याप्तमग्र पुरःप्रदेशो यस्य स एष विशालो बहुविस्तारवान् शाल एव अस्तु भवतु। यः किल रतीश्वरस्य कामदेवस्याज्ञामतिक्रम्योल्लङ्घ्य निर्गच्छतां नणां प्रतिषेधाय निवारणाय दृश्यो दर्शनयोग्यो भवति। लोकेऽपराधकारिजनरोधनार्थं कारागारस्याने प्राकारं दत्त्वा तस्योपरिमभागे काचांशा आरोप्यन्ते यतः सोऽनुल्लङ्घनीयः स्यात्तयात्रापीति ॥२६॥ धैर्य रूपी धनको लुप्त करने वाला है ऐसा यह अन्धकार रूपी निशाचर-राक्षस सन्ध्याकी लालिमा रूपी रुधिर पीनेके लिये आकाशमें दिखाई दे रहा है ॥२४॥ अर्थ-चित्रभानु-सूर्यरूपी अग्नि अस्ताचलके वनको जला कर स्वयं शान्त हो गयी-बुझ गयी है। यदि ऐसा नहीं होता तो अन्धकार रूपी धुआं क्यों फैलता और नक्षत्रोंके छलसे आंसुओंका समूह आकाशको क्यों व्याप्त करता ? ॥ २५ ॥ अर्थ-यह अन्धकारका समूह ऐसा एक विशाल कीट है जिसके अग्रभाग पर कांचके टुकड़े खचित किये गये हैं और ऐसा कोट जो कि कामदेवकी आज्ञाका १. 'सानुः शृङ्ग बुधेऽरण्ये' इति विश्व० । २. 'चित्रभानुरिनेऽनले' इति विश्व० । इन सूर्य इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy