________________
६८-६९] त्रयोदशः सर्गः
६४७ शिविरेत्यादि । शुद्धता स्वच्छता निर्दोषतां चानुगतस्तस्य शिविराणामुपकार्याणां प्रगुण उपचयस्तस्य, रज्जूवलस्य कौशलादेर्वा कर्षणे सम्बन्धने तथा कृशीकरणे व्याच्छादने वा तत्परान् संलग्नान् शङ्क्नपि क्षणं किञ्चित्कालमनुगतेक्षणस्तद्गतदृष्टिर्भवन् नहि सेहेऽसहत । यतः स ईश्वरः समयः । समासोक्तिः ॥ ६७ ॥
समवाप निवेशसन्निधौ नृवरो द्विप्रहरोक्तिमद्विधौ । तपने लपनेऽपि निष्ठिते मुखतः सम्मुखतः शिखावृते ॥६८।।
समवापेति । नवरो जयकुमारो द्वयोः प्रहरयोर्यामयोक्तियस्मिन् स हिप्रहरोक्तिमान् मध्याह्नकालोक्तो विधिरनुष्ठानं तस्मिन्, तपने सूर्येऽपि लपने मुखोपरि निष्ठिते स्थिते सति, मुखतः सम्प्रखत मुखस्य विशीत्यर्थः । शिखाभिवभशाखाभिवते समाच्छादिते निवेशस्य निर्दिष्टस्वावासस्य सन्निधौ समीपे समवाप प्राप्तवान् ॥ ६८॥
पृतनापतिपार्श्वमागतः कथमप्यर्थिगणोऽथ रागतः ।
रथवेगवशेन विक्लवः समभूत्तत्र वरः समुत्सवः ।।६९।। पृतनेत्यादि । अथ रथस्य जयकुमारालङ्कृतस्यन्दनस्य वेगवशेन विक्लवो विह्वलो भवन्नथिंगणः किमपि प्रयोजनवान् मनुष्यवर्गो रागतः प्रेम्णा कथमप्यतिकाठिन्येन पृतनापतेर्जयकुमारस्य पार्श्वमागतः, तत्र समागते सति वरः समुत्सवः समभूत् ।। ६९ ॥
अर्थ : उन तम्बुओंकी सरलताका और शुद्धताका अवलोकन करनेवाला वह जयकुमार उनके गुणों (रस्सियों) को खींच कर तंग करनेवाले कीलोंको नहीं सहन कर सका, क्योंकि वह समर्थ था ।। ६७ ॥
मन्वय : नृवरः द्विप्रहरोक्तिमद्विधौ लपने निष्ठिते तपने अपि मुखतः सम्मुखतः शिखावृते निवेशसन्निधौ समवाप ।
अर्थ : जब कि सूर्य ललाटपर आ गया था किन्तु वृक्षोंकी शाखाओंसे आच्छादित होनेके कारण उसकी किरणे मस्तकके ऊपर नहीं पड़ रही थीं, ऐसे दोपहरके समयमें वह जयकुमार अपने निवासके योग्य तम्बू के समीप पहुँचा ।। ६८ ॥
अन्वय : अथ रागतः अर्थिगणः कथम् अपि रथवेगवशेन विक्लवः पृतनापति-पार्वमागतः तत्र वरः समुत्सवः समभूत् ।
अर्थ : उस समय जयकुमारके समीप उसके रथके वेगसे विह्वल हुआ-सा याचक लोगोंका समूह आया जो कि देखनेवालोंके लिए उत्सवका विषय हो गया ॥ ६९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org