SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ ६.३४ जयोदय- महाकाव्यम् [ ३३-३५ अयनं कियदेतदिष्यते यदि दीर्घाध्वगवाच्यताऽस्ति नः । इति गर्जनयान्वितः स्वतो मयवर्गो व्रजति स्म वेगतः ||३३|| अयनमिति । यदि नोऽस्माकं दीर्घमध्वानं गच्छन्तीत्येवं दीर्घाध्वग वाच्यतास्ति, तवैतदयनं वत्मं कियदिष्यते ? न किमपीति स्वतोऽनायासेन गर्जनयान्वितः सन् मयानामुष्ट्राणां वर्गः समूहो वेगतो व्रजति स्म चचाल ॥ ३३ ॥ अनसां घनसारशालिनां जलयानोपमिनां समुच्चयः । बलवाजनिधौ सुविस्तृते स च वव्राज जवेन राजितः || ३४ || अनसामिति । सुविस्तृते परिणाहपूर्णे वलवाजनिधो सैन्यसागरे जलयानानां पोतानामुपमा येषां ते तेषां धनसारशालिनां मार्गोपयोगिवस्तुसङ्ग्रहवतां मनसां शकटानां समुच्चयः स च राजितः पतिवद्धतया जवेन वेगेन वब्राज । रूपकोपमयोः सङ्करः ॥ ३४ ॥ रथमण्डलनिस्वनैः समं करिणां बृंहितमानिजुहुवे | पुनरत्र तुरङ्गहेषितं स्वतितारं सुतरामराज || ३५ ।। रथेत्यादि । रथानां मण्डलं समूहस्तस्य निस्वनैश्चीत्कारैः समं साधं करिणां व हितं गर्जितं तदानिजुह्नवे व्यानशे । अत्रापि पुनस्तुरङ्गहेषितं तु स्वतितारमुच्चस्तरं सुतरामराजत । अत्र रथाबीनां शब्देन सम्मिश्रणेऽपि तुरङ्गहेषितस्य पृथक् प्रतिपादनावतद्गुणो ऽलङ्कारः ॥ ३५ ॥ अर्थ : फैलते हुए शोभित जलवाले सैन्य- सागरमें जो हाथी थे वे मकर सरीखे प्रतीत होते थे जिन्होंने अपनी सूँडोको ऊपर उठा रखा था ।। ३२ ॥ अन्वय : यदि नः दीर्घाध्वगवाच्यतास्ति (तदा) एतत् अयनं कियत् इष्यते ? इति स्वतः गर्जनयान्वितः मयवर्गः वेगतः व्रजति स्म । अर्थ : : जब कि लोग हमको दीर्घाध्वग (लम्बे चलनेवाला) कहते हैं तो मार्ग फिर हमारे लिए कितना सा है ऐसा कहता हुआ ही मानों गर्जना करता ऊँटोंका समुदाय स्वयं ही प्रबल वेग से दौड़ता हुआ चल रहा था ।। ३३ ॥ अन्वय : सुविस्तृते बलवाजनिधौ धनसारशालिनां जलयानोपमिनां अनसां समुच्चयः स च राजितः जवेन वव्राज । अर्थ : उस विस्तृत सेनारूपी समुद्रमें जहाजकी तुलना रखनेवाली धनसे भरी हुई गाड़ियोंका समूह पंक्तिबद्ध होकर बड़ी तेजीसे चल रहा था ॥ ३४ ॥ अन्वय : रथमण्डलनिस्स्वनैः समं करिणां तद् बृंहितं आनिजुह्नवे । अत्र पुनः तुरङ्ग हेषितं तु अतितारं सुतराम् अराजत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy