________________
६२८ जयोदय-महाकाव्यम्
[१८-२० प्रायो येषां ते तादृशा बभुः शुशुभिरे। स प्रभुर्जयकुमारश्च तान् सर्वान् अनुकुर्वन् नाहं भवद्भ्यो दूरमित्याविसौहार्दसूचकं शब्दमुच्चरन् ययौ ॥ १७ ॥
अनुगम्य जयं घृतानतिः प्रतियाति स्म स मण्डलावधेः ।
अनिलं हि निजात्तटात्सरोवरभङ्गश्चटुलापतां गतः ।।१८।। अनुगम्येति । सोऽकम्पनादीनां वर्गश्चटुलापतां गतः प्राप्तङ्गिकमधुरवार्तालापं कुर्वन्, तथा धृता स्वीकृताऽनतिर्नमस्कारो येन तथाभूतः सन्, जयमनुगम्य मण्डलस्य देशस्य योऽवधिः सीमा ततः प्रतियाति स्म निवृत्तोऽभूत् । हि यथा सरोवरस्य भङ्गस्तरङ्गोऽनिलं वायुमनुगम्य निजात्तटान्निवर्तते तथा । उपमालाकारः ॥१८॥
सुदृशा सहितस्ततो हितोऽनुगतोऽसौ नृपतेः सुतैरगात् । अनुवासनयन्वितोऽनिलः सरसः सम्प्रति शीकरेरिव ।।१९।। सुदृशेति । ततः पुनरसो हितः स्व-परकुशलचिन्तको जयकुमारः सुदशा सुलोचनया सहितो भूत्वा, नृपतेरकम्पनस्य सुतैर्हेमाङ्गवादिभिरनुगतोऽभूत् । अनुवासनया सुगन्धवशयाऽन्वितो युक्तः सरसोऽनिलो वायुः शीकरैर्जलकर्णरिव यथा वृश्यते युक्तस्तथेत्यर्थः उपमालङ्कारः ।। १९॥
धवसम्भवसंश्रवादितो गुरुवर्गाश्रितमोहतस्ततः ।
नरराजवशादृशात्मसादपि दोलाचरणं कृतं तदा ॥२०॥ वर-राज जयकुमार उन्हें आश्वासन देते चले जा रहे थे (कि मैं आप लोगोंसे भिन्न या दूर नहीं हूँ) ॥ १७॥
अन्वय : चटुलापतां गतः सरोवरभंगः निजात्तटात् अनिलं हि स मण्डलावधेः जगं अनुगम्य धृतानतिः प्रतियाति स्म ।
अर्थ : मधुर आलाप करता हुआ जन-समुदाय जयकुमारका अनुगमन करता हुआ अपने देशकी सीमा तक जाकर वापिस लौट आया। जैसे कि सरोवरके जलकी तरंग पवनका अनुगमन करके अपने तटसे वापिस आ जाता है ॥ १८॥
अन्वय : सम्प्रति अनुवासनयान्वितः सरसः अनिलः शीकरैरिव असौ हितः ततः सुदृशा सहितः नृपतेः सुतैः अनुगतः अगात् । ___ अर्थ : इसके बाद सुलोचना-सहित ओर राजा अकम्पनके पुत्रों सहित वह जयकुमार आगे बढ़ा जैसे कि पवन सरोवरपरसे कमलोंकी सुगन्धरूप वासनाको लेकर कुछ जलके कणोंको साथ लेकर आगे बढ़ता है ।। १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org