SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६२६ जयोदय-महाकाव्यम् [ १२-१६ रथिनां पथि नायको जयः सविभावान् इव तेजसां चयः । निजया प्रजया समन्वितः पुरतो निर्गतवाञ् जनैः श्रितः ॥ १२ ॥ रथनामिति । रथिनां रथेन गमनशीलानां पथि वर्त्मनि नायकं प्रथमो योऽसौ जयः सोमपुत्रः सविभावान् सूर्य इव तेजसां चयः समूहः स निजया स्वकीयया प्रजया समन्वितस्तथाऽन्यैश्च जनैः साधारणेरपि श्रितः संयुक्तो भवन् पुरतो नगरतो निर्जगाम । उपमालङ्कारः ।। १२ ।। किमु वर्त्मविरोधिनो जना अधुना चापसरेत् चैकतः । गजपत्तननायको मतस्त्वरमायाति परिच्छिदान्वितः ||१३|| अपि निर्भयमास्थिताः कथं व्रजतीतः खलु वाजिनां व्रजः । गजराजरितः समाव्रजत्यथवा स्यन्दनसञ्चयः पुनः || १४ | किमु पश्यसि दृश्यते न किं जनसङ्घट्टनमेतदित्यतः । निजमङ्गजमङ्ग जङ्गमं सहसोत्थापय घृष्ट ! वर्त्मतः || १५ ।। अपि पाणिपरीतयष्टिकः स्वयमग्रेतनमर्त्यसार्थकः । निजगाम गमं समुत्तरन् समुदारध्वनिमित्थमुच्चरन् || १६ || मार्गमें पड़े हुए काँटे-कंकड़ों आदिको दलन करते हुए, तथा अन्य सैनिक एवं बारातो लोग घोड़ों और रथोंसे शीघ्र चल पड़े ॥ ११ ॥ अन्वय : रथिनां पथि नायकः जयः च तेजसां चयः विभावान् इव स निजया प्रियया समन्वितः जनैः श्रितः पुरतः निर्गतवान् । अर्थ : तेजस्वी और कान्तिमान जयकुमार सूर्यके समान रथियों (रथवालों) के मार्ग में अपनी प्रियाके साथ अनेक मनुष्योंके समुदाय सहित नगरसे बाहर निकला। जिस प्रकार कि सूर्य अपनी प्रिया प्रभाके साथ और सहस्रों किरणोंके साथ आकाश मार्ग में उदयाचलसे प्रस्थान करता है ॥ १२ ॥ अन्वय : (हे) जना, अधुना च किमु वर्त्मविरोधिनः एकत: च अपसरेत, गजपत्तननायकः परिच्छदान्वितः मतः त्वरम् आयाति । निर्भयम् अपि कथं आस्थिताः इतः खलु वाजिनां व्रजः व्रजति, इतः गजराजि: अथवा इतः स्यन्दनसञ्चयः तु समावज्रति । अङ्ग धृष्ट किमु पश्यसि ? एतद् जनसङ्घट्टनम् न दृश्यते ? किं निजम् जङ्गमं अङ्गम् सहसा इत्यतः वर्त्मनः उत्थापय । अपि पाणिपरीतयष्टिकः स्वयत् अग्रेतनमयसार्थकः इत्थं समुदार-ध्वनिम् उच्चरन् गमं समुत्तरन् निजगाम । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy