________________
६०२ जयोदय-महाकाव्यम्
[ १०७-१०८ पिप्पलेत्यादि । अत्र मदुला, आणिः सीमा ययोस्ती मृदुलाणी सुकोमलौ सुदृशः सुलोचनायाः पाणी हस्ती चैतो पिप्पलकुपलस्याश्वस्थ-किसलयस्य कुलमिव कुलं जातिययोस्तों साक्षादिह सहजस्नेहवशाद एकोदरजाततया प्रीतिभावाल्लाक्षा जतुपरिणतिः सा वलयानां कङ्कणानां उछलतः प्रमिलति याभ्यां ताभ्यां सह सममेलनं करोतीत्यर्थः । अनुप्रासालङ्कारोत्प्रेक्षयोः संसृष्टिः ॥ १०६ ॥ अरिकरिकुलपरिहरणपराभ्यां नयरयमयजयनृपतिकराभ्याम् । योद्धमिवास्या नवलरुचाभ्यां कञ्चुकमञ्चितमपि च कुचाभ्याम् ।।१०७।।
अरीत्यादि । नयरयमयो नीतिविचारवान् यो जयनृपतिस्तस्य कराभ्या, कोवृशाभ्याम्, अरीणां वैरिणां करिकुलं हस्तिसमूहस्तस्य परिहरणे पराभ्यां तत्पराभ्यां ताभ्यां सह योधुमिव किलास्याः सुलोचनायाः कुचाभ्यो, कोदशाभ्यां ताभ्यामिति चेन्नवला नवीना रुचा कान्तियंयोस्तो ताभ्यां, कञ्धुकमावरणवस्त्रमेव कवचमञ्चितं परिहितं यत्र यथा स्थात्तथा । स्वरूपेण कुम्भस्थलसवृशाभ्यां करिसधर्मभ्यां कुचाभ्यां करिकुलहरणपरायणस्य जयकुमारस्य करयोर्युद्धाचरणं युक्तमेवेत्यर्थः ॥ १०७॥
स्नेहनमुत्तारितमवतार्य त्रिवर्गवर्त्मनि गत्वोद्धार्यम् । अपवर्ग प्रतिवददिव ताभिः सुदृशः सुवासिनीमहिलाभिः ॥१०८॥
अन्वय : एतौ सुदृशः पाणी मृदुलाणी पिप्पलकुपलकुलो विलसतः (इति) सहजस्नेहवशादिव लाक्षा वलयच्छलतः साक्षात् मिलति स्म ।
अर्थ : इसके अनन्तर सुलोचनाको लाखके वलय (चूडा) पहनाये गये, इसपर (उत्प्रेक्षा की गई है कि सुलोचनाके दोनों हाथ पीपलकी पलके समान कोमल थे और लाख पीपलके लगती है अतः सहज स्नेहके वशसे ही मानों वह लाख उनके साथ आकर मिली ॥ १०६ ॥
अन्वय : अरिकरिकुलपरिहरणपराभ्यां नयरयमयजयनृपतिकराभ्याम् (सह) योद्धम् इव अस्या नवलरुचाभ्याम् अपि च कुचाभ्याम् करचुकम् अश्चितम् ।
अर्थ : न्याय नीतिके जानकार जयकुमारके हाथ जो कि अरियोंके गजकुलको पराजित करनेवाले थे; उनके साथ सुलोचनाके कुचोंको युद्ध करना पड़ेगा, इसी विचारको लेकर सुलोचनाके दोनों कुचोंने कंचुकरूपी कवच धारण कर लिया। अर्थात् सुलोचनाने अपने स्तनोंपर काँचली-वस्त्रके बहानेसे मानों कवच धारण किया ॥ १०७ ॥
अन्वय : सुदृशः सुवासिनीमहिलाभिः त्रिवर्गवर्त्मनि गत्वा अपवर्गम् उद्धार्य (इति) प्रतिवदद् इव ताभिः स्नेहनम् अवतार्य उत्तारितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org