SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५७४ जयोदय-महाकाव्यम् [ ३९-४० वर इत्यादि । हे दुर्लभ, भवान् वरः श्रेष्ठ एव, इयं तु सुरोचना वारा बालवयोल्पाऽतएवोभयोर्युवयोविग्रहस्य शरीरस्य नाम समरस्य लक्षणं सत्प्रशस्तमस्ति । तस्माद् भवान्, जय इमामेतु प्राप्नोतु, अथवा, इयं जये भवति परायणा स्यादुभयोः परस्परं प्रेमसम्बन्धो भवेत्, तव जयोऽस्याश्च पराजय एव च वरं श्रेष्ठं स्यात् सम्बिधे सुविधालक्षणे लक्षणे वर्मनि ॥ ३८ ॥ अजरोऽस्तु भवान् स्मरेण तुल्यं मुखमस्या अवलोकयन्नमूल्यम् । तव भूमिमुपेत्य साभ्यसूया जरतीयं रतिरूपिणी च भूयात् ॥३९।। अजर इति । हे जय, अस्याः सुलोचनाया मुखमास्यमथ च शब्दापेक्षया मुखमन्त्याक्षरं नाकारमवलोकयन् स्वीकुर्वन्, कीदृशं तद्यवमूल्यं भवति तद् भवान् स्मरेण कामदेवेन तुल्यः सन्, अजरो जरारहितस्तथा, न जकारं लातीत्यजरस्तु किञ्चेयं च रतिरूपिणी कामदेवस्य स्त्रीतुल्या तव भूमि वंशपरम्परामुपेत्य, अथ च नाम्नोऽपि प्रथमाक्षरं जकारमाप्त्वा जरती भूयाद्, भवानजरो ना च भूयावियं च भवता समं जरती चिरसौभाग्यवती भूयाविति । कीदृशीयं सायां लक्ष्म्यामभ्यसूया स्पर्धा यस्या इति यावत् ॥ ३९ ॥ हृदयं सदयं दधानि विद्धं स्मर-वाणैरनया नयात्सुसिद्धम् । समभूदिति साक्षिणीव तस्य सुममाल्येन करद्वयी वरस्य ।। ४० ॥ हृदयमिति । अयं जयकुमारः स्वस्य हृदयं मनोऽनया सुलोचनया हेतुभूतया स्मर. अन्वय : भवान् वर एव इयं तु पुनः वाराः, इति उभयोः सदा आरात् विग्रहलक्षणं, किन्तु इमां जय एतु अथबा इयं पराजये वरमेव सम्विधे स्यात । अर्थ : महाराज अकम्पन पुनः बोले-आप तो वर (श्रेष्ठ) हैं, किन्तु यह बाला (भोली) है, यह आप दोनों में बड़ा भारी अन्तर सदाका है, अब चाहे इसे जय प्राप्त हो (जयकुमार प्राप्त हो) या भले ही यह पराजयमें अर्थात् जयमें तत्पर हो, दोनों अवस्थाओंमें यह बात सारे संसारके लिये सुहावनी है ॥ ३८ ॥ ___ अन्वय : भवान् अस्याः अमूल्यं मुखं अवलोकयन् स्मरेण तुल्यः अजरोऽस्तु इयं च रतिरूपिणी साभ्यसूया तव भूमि उपेत्य जरती भूयात् । अर्थ : अब आप इसके अमूल्य मुखका अवलोकन करते हुए कामदेवके समान अजर, अमर बनें, और यह बाला आपके घरको प्राप्त होकर आपसे स्पर्धा प्राप्त करती हुई 'जरती' वृद्धा और रति बने । अर्थात् यह मेरी पुत्री सदा सुहागिनी बनी रहे ॥ ३९ ॥ अन्वय : तस्य वरस्य करद्वयी सुममाल्येन इति साक्षिणीव समभूत् यत् किल अयं अनया स्मरबाणः विद्ध सदयं हृदयं दधाति इति नयात् सुसिद्ध। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy