________________
सप्तमः सर्गः
३५१ क्षमायामस्तु विश्रामः श्रमणानां तु भो गुण ।
सुराजां गजते वंश्यः स्वयं माञ्चकमूर्धनि । ४६ ॥ क्षमायामिति । भो गुण मन्त्रिन्, क्षमायां तु श्रमणानां विश्रामोऽस्तु। सुराजां भूपेन्द्राणां वंश्यः कुलजातस्तु स्वयं स्वपौरुषेण माञ्चकस्य सिंहासनस्य मूर्धनि समुपरि राजते ।। ४६ ॥
विनयो नयवत्येवाऽतिनये तु गुगवपि ।
प्रमापणं जनः पश्येन्नीतिरेव गुरुः सताम् ।। ४७ ।। विनय इति । विनयः शिष्टाचारस्तु नयवत्येव नीतिमति जन एव, विधीयत इति शेषः । नयम् अतिक्रान्तोऽतिनयस्तस्मिन्नतिनये अतिक्रान्तनीतौ तु गुरावपि जनः स्वाभिमानी पुरुषः प्रमापणं मारणमेव पश्येत् । यतो यस्मान्नीतिरेव सतां गुरुरुपदेष्ट्री विद्यत इत्यर्थः ॥ ४७ ॥
स्वयंवरं वरं वदं मन्ये नानेन मे ग्रहः । किन्तु मन्तुमिदं ग्राह्यतया कारितवान् कुधीः ।। ४८ ॥
अन्वय : भो गुण ! श्रमणानां तु क्षमायां विश्रामः अस्तु । सुराजां वंश्यः स्वयं माञ्चकमूर्धनि राजते।
अर्थ : हे मंत्री! सूना। क्षमा बालकर विश्राम लेनेवाले लो श्रमण ( त्यागी ) होते हैं । क्षत्रियोंका पुत्र तो अपने बलद्वारा सिंहासनके सिरपर आरूढ़ होता है ।। ४ ।।
अन्वय : विनयः नयवति एव ( भवति ) । जनः अतिनये तु गुरौ अपि प्रमापणं पश्येत् । यतः सतां गुरु: नीतिः एव ।
अर्थ : रहो विनयकी बात ! सो विनय तो नीतिवान्की की जाती है । नीति त्यागकर जानेवाला चाहे बड़ा-बूढ़ा, पूज्य ही क्यों न हो, समझदार मनुष्य उसकी भी खबर लेता है। क्योंकि नीति ही सबकी गुरु है ।। ४७ ॥
अन्वय : स्वयंवरं वरं वर्म ( इति अहं ) मन्ये । अनेन में ग्रहः न (अस्ति)। किन्तु कुधी: इदंग्राह्यतया मन्तुं कारितवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org