SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ११५-११७ ] षष्ठः सर्गः त्रिभुवनपतिकुसुमायुधसेनायाः स्वामिनीत्वमिह चेयान् । भरताधिपबलनेता तस्मात्ते स्याजयः श्रेयान् ॥ ११५॥ त्रिभुवनेति । हे बाले, त्वमिह त्रिभुवनपतिर्यः कुसुमायुधः कामस्तस्य सेनायाः स्वामिन्यसि सौन्दर्याधिक्यादिस्याशयः। किन्त्वयं केवलं भरतमात्रस्य अधिपतेर्नेता, इयानेव । तस्मात्ते जयो विजयः श्रेयानुत्तमो न्यायप्राप्त एव । विशिष्टबलवता अल्पबलो जीयत इति नियमात् । अथ चायं जयो जयकुमारस्तुभ्यं श्रेयान् कल्याणकर एव स्यादित्यर्थः॥ ११५ ॥ यदि भो जयैषिणी त्वं दृक्शरविद्धं ततश्शिथिलमेनम् । अयि बालेऽस्मिन् काले सजा बधानाविलम्बेन ॥ ११६ ॥ यदीति । भो सुलोचने यदि त्वं जयैषिणी जयकुमाराभिलाषिण्यसि तहि दृकशरैः कटाक्षबाणः विद्धमाहतं ततः शिथिलमेनं, अयि बालेऽस्मिन् काले क्षिप्रमेव सजा स्वयंवरमालया बधान, अस्य ग्रीवायां मालामुन्मुच्य एनं स्वामित्वेन वृण्वित्याशयः ॥ ११६ ॥ मालां जयस्य निगले वदति क्षेतु किल स्मरः स्मर माम् । निषिषेधापत्रपता द्वयोश्च साऽऽज्ञामुवाह समाम् ।। ११७ ॥ अन्वय : (हे बाले) त्वं त्रिभुवनपतिकुसुमायुधसेनायाः स्वामिनी, अथ च (अयम् ) इयान् भरताधिपबलनेता । तस्मात् ते जयः श्रेयान् स्यात् । ___ अर्थ : बाले ! तुम तो तीनों भुवनके स्वामी कामदेवकी सेनाकी नायिका हो और यह मात्र भारतदेशके चक्रवर्तीका सेनापति है। इसलिए तेरी जय उचित हो है, अथवा तुम्हारे लिए जयकुमार उचित हो है ॥ ११५ ॥ अन्वय : अयि भो बाले ! यदि त्वं जयैषिणी ततः अस्मिन् काले शिथिलम् एनं दृक्शरविद्ध अविलम्बेन स्रजा बधान । ____ अर्थ : अरी बाले ! यदि तू विजय चाहती है, तो इस समय तेरे कटाक्षबाणोंसे घायल होनेके कारण यह शिथिल हो रहा है । अतः इसे मालाके बंधनसे बाँध ले ॥ ११६ ॥ अन्वय : स्मरः किल जयस्य निगले मालां क्षेप्तुं वदति । च अपत्रपता मां स्मर इति निषिषेध । सा द्वयोः आज्ञां समाम् उवाह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy