SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४२ जयोदय- महाकाव्यम् १५३-५४ ऽस्मिन् समये ज्योतिषां रवि-चन्द्रादीनां श्रुतिरिवास्ति खलु यतोऽङ्केन लक्षणेन कलिता सम्पादिता उचिता सत्ता प्रशंसनीयता नक्षत्ररूपता वा यया सा । किञ्च उदितं प्रतिपादितमुदयमाप्तञ्च तारकनाममध्यमणेः, उत तारकाणामश्विन्यादीनां वृत्तवृत्तान्तं यत्र सेति ॥ ५२ ॥ साऽवदन्नृप सुमङ्गलवेलाऽसौ शुचस्तु भवतादव हेला । ईदृशामिह महीमहितानां वृत्तमङ्ग विवृणोमि हितानाम् ।। ५३ ।। सावददिति । सा पूर्वोक्तवर्णना बुद्धिदेवीनामा अववत् हे नृप, असौ मङ्गलस्यानन्दस्य वेला वर्तते । अत एवाधुना शुचः शोकस्य अवहेला तिरस्कारो भवतात् । अङ्ग, इह प्रसङ्गे हितानामभीष्टरूपाणामोदृशां लोकोत्तरगुणवतां मह्यां पृथिव्यां महितानां पूजितानां राज्ञां वृत्तमहं विवृणोमि, एषा परिचयं ददामीत्यर्थः ॥ ५३ ॥ त्वत्सहोदरनिदेश विधात्री तत्पुनर्भवदनुग्रहपात्री | एकया व्यवहृतो यदि मात्रा भिद्यते नृप न जातु विधात्रा ॥ ५४ ॥ त्वत्सहोदरेति । हे नृप, काशिराज, अहं त्वत्सहोदरस्य भ्रातुश्चित्राङ्गदस्य यो निबेश आदेशस्तस्य विधात्री परिचारयित्र्यस्मि । तत्तस्मात् कारणाद् भवतां भूपतीनामनुग्रहस्य कृपाप्रसादस्य पात्री भविष्याम्येव, यते यद्येकया मात्रा जनितत्वेन व्यवहृतस्तेन सार्धं तवा विधात्रा जगद्रचयित्राऽपि जातु मनागपि न भिद्यते भिन्नरूपेण ज्ञायते ॥ ५४ ॥ अर्थ : इस शोभन समय में उस देवीके गलेमें सुशोभित होनेवाली और मध्य में तारकनामक मुख्यमणिसे युक्त हार-यष्टि ( मोतीका हार ) ज्योतिष यानी रवि, चन्द्र आदिकी श्रुतिके समान प्रतीत हो रही थी ॥ ५२ ॥ अन्वय : सा अवदत् नृप ! असौ सुमङ्गलवेला, ( अतः ) शुचः तु अवहेला भवतात् । अङ्ग इह ईदृशां महीमहितानां हितानां वृत्तम् अहं विवृणोमि । अर्थ : इस प्रकार पूर्वोक्त गुणोंवाली बुद्धिदेवीने राजा अकम्पनसे कहा : 'राजन् ! यह तो बड़ी ही मांगलिक बेला है, अतः अब चिन्ता त्याग दो । अङ्ग ! पृथ्वीपर आदरणीय और अभीष्टरूप इन राजाओंके चरित्रका में वर्णन - कर बताती हूँ ॥ ५३ ॥ अन्वय : हे नृप ! अहं त्वत्सहोदर निदेशविधात्री, तत् पुनः भवदनुग्रहपात्री । यदि एका मात्रा व्यवहृतः, तदा विधात्रा जातु न भिद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy