________________
जयोदय-महाकाव्यम्
[ २-३ पुरा पुराणेषु धुरा गुरूणां यमीश इष्टः समये पुरूणाम् । श्रीहस्तिनागाश्रयणश्रियो भूर्जयोऽथ योऽपूर्वगुणोदयोऽभूत् ।।२।।
पुरेति । अथ पुरा प्राचीनकाले पुराणेषु द्वादशाङ्गरचनारूपशब्देषु गुरूणाम् अचार्याणां धुरा प्रधानभूतेन तेन भगवज्जिनसेनमहानुभावेन पुरूणां श्रीमद्वृषभनाथतीर्थङ्कराणां समयेऽवसरे यमिनां संयतानामोशो गणाधिप इष्ट इच्छाविषयीकृतः सः । जय इत्यनेन नामैकदेशेन नामग्रहणमिति जयकुमारो नाम अपूर्वेषामनन्यसदृशानांगुणानामुदयः प्रादुर्भावो यस्मिन् सः, श्रीहस्तिनागाख्यपुरस्य श्रियो भूः स्थानं हस्तिनागपुरनरेशोऽभूत् । __ अथवा समयेऽस्मदाम्नायशास्त्रे गुरूणां पुरूणामाणेषु ध्वनिषु धुराऽनेसरभावं कश्चिदापुः । स ईशः श्रीहस्तिनापुरनरेशोऽपूर्वगुणवान् जयकुमार. इष्टोऽस्माकमिच्छाविषयीकृतः । अथेति प्रस्तावप्रारम्भ। किञ्च, अकारो महादेवः, अपूर्वगुणोदयो महादेवतुल्यगुणसमुदयः । श्री: पार्वती, हस्ती गणेशः, नागः शेषस्तेषां पुराणि शरीराणि तेषां, श्रियः शोभायाः भूः स्वामीति यावत् । शब्दार्थो रुद्रपक्षे ॥ २॥ ..
कथाप्यथामुष्य यदि श्रुतारात्तथा वृथा साऽऽयं सुधासुधारा । कामैकदेशक्षरिणी सुधा सा कथा चतुर्वर्गनिसर्गवासा ॥ ३ ॥ कथापीति । अथेत्यव्ययं शुभसंवादे । हे आर्य, अमुष्य प्रस्तुतस्य राज्ञो जयकुमारस्य
अन्वय : अथ पुरा पुराणेषु गुरूणां धुरा [ तेन ] पुरूणां समये यमीशः इष्टः, अपूर्वजयोदयः सः जयः श्रीहस्तिनागाश्रयणश्रियः भूः अभूत् ।
अर्थ : प्राचीन काल में पुराणों प्रसिद्ध आचार्यों में प्रधान भगवान् जिनसेनने श्रीवृषभदेव तीर्थङ्करके समय संयमियोंके रूपमें जिसे चाहा, अपूर्व गुणोंसे सम्पन्न वे जयकुमार महाराज हस्तिनागपुरका शासन कर रहे थे। अर्थात् हस्तिनागपुरके नरेश थे ॥२॥
विशेष : 'अ' कारका अर्थ महादेव करने पर यह अर्थ होगा कि वह राजा महादेवके तुल्य गुणोंसे समन्वित था। इसी तरह श्रीः = पार्वती, हस्ती = गणेश, नागः = शेष, तीनोंके पुर अर्थात् शरीरोंकी शोभाके स्वामी, यह रुद्रपक्षमें अर्थ होगा।
अन्वय : अथ (हे) आर्य अमुष्य कथा यदि श्रुता अपि तथा आरात् सुधासुधारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org