SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९० जयोदय-महाकाव्यम् [११६ एव हेतुर्यस्याः सा तस्य भावत्वात् । आप्तोक्तिपरम्परायातत्वात् आप्तोक्तिविशेषस्यैव प्रतिपावकत्वाद्वा । अनुप्रासश्लेषोपमालङ्काराः ॥११५॥ स्वप्रेष्ठं स्मरसोदरं जयनुयं तत्रागतं सादरं यत्नाद्गोपुरमण्डलात् स्वयमथोत्सर्गस्वभावाधिपः । वप्ताऽऽनीय सुपुष्कराशयतनोर्धामप्रभृत्युज्ज्वलं रक्त्याऽदात् स्वपुरेऽयमात्तवरदोऽरं कृत्यपः श्रीधरः ॥ ११६॥ स्वप्रेष्ठमिति । सुपुष्कराशयतनोः श्रेष्ठकमलगर्भशरीरायाः सुलोचनाया वप्ता पिता श्रीधर आत्ता वरदा कन्या येन सः, कन्याया जनकत्वादेव कृत्यं स्वकर्तव्यं पाति पालयतीति कृत्यपः, गृहागतातिथीनां सत्काराचरणं कन्यापितुः कार्यमेवेति कृत्वा तत्रागतमुपस्थितं स्मरस्य कामस्य सोवरमिव स्वप्रेष्ठमतिशयप्रेमाधिकरणं गोपुरमण्डलात् पुरद्वाराप्रभागादेव यत्नात् सावधानतया आनीय लात्वा स्वयमेवान्यप्रेरणमन्तरेव, पुनरुत्सर्गस्वभावस्याधिपोऽधिकारी स स्वपुरे काशीनाम्नि रक्तघाऽनुरागेण तस्मै जयकुमाराय उज्ज्वलं दीप्तिमद् धामप्रभूति प्रासावाविकमरं ध्रुतमेव अवात् बत्तवान् । एतच्छन्दश्चक्रबन्धे षडरात्मके लिखित्वा, अपामरैः 'स्वयंवरपल' इति ध्येयम् ॥ ११६ ॥ स श्रीमान् सुषुवे चतुर्भुजवणिक् शान्तः कुमाराह्वयं, वाणीभूषणवणिनं घृतवरीदेवी च यं धीचयम् । नव्या पद्धतिमुद्धरत्सुकृतिभिः काव्यं मतं तत्कृतं, सर्गस्य द्वितयेतरस्य चरमां सीमानमेतद् गतम् ॥ ३ ॥ ॥ इति श्रीजयोदयकाव्ये तृतीयः सर्गः॥ नवीन अपूर्व कल्पनात्मिका आनन्दप्रदा वाणी भी सम्यक् आप्तोपज्ञ परम्परागत वाणी प्राप्त की जाती है ।। ११५ ॥ अन्वय : अथ उत्सर्गस्वभावाधिपः सुपुष्कराशयतनोः वप्ता अयम् आत्तवरदः श्रीधरः स्वयं यत्नात् गोपुरमण्डलात् स्वप्रेष्ठं स्मरसोदरं जयनृपं तत्र आगतं सादरं आनीय रक्त्या उज्ज्वलं धामप्रभृति अदात् । मर्थ : काशीपुरीके स्वामी, कमलगभंशरीरा सुलोचनाके पिता कृत्यको जाननेवाले राजा श्रीधर यत्नपूर्वक स्वयं पुरके द्वारपर पहुंचकर वहां आये और परमप्रिय कामदेवके सहोदरके समान जयकुमार राजाको सादर अपने नगरमें लिवा लाये तथा बड़े प्रेमके साथ उन्होंने उनके रहनेके लिए योग्य स्थान आदिका प्रबन्ध किया ॥ ११६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy