SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रथम संस्करण से મુવમ્ पूर्वाश्रमे बाल ब्रह्मचारिभिः श्रीभूरामलाभिधैः सपदि श्रीपूज्य मुनिज्ञानसागरा भिधैर्विरचितं 'सुदर्शनोदय' नामकाव्यमस्माभिः विहङ्गमद्दशा समवलोकितम्। नवसर्गात्मकमिदं चम्पापुरनगरस्थ-सुदर्शन-वणिजश्चरितं वर्णयत् जिनसम्मतां मोक्षलक्ष्मी पुष्णाति। धीरोदात्तस्य नायकस्य कथावस्तु एव एतादृशं कौतूहलावहं कविना कवयितुं निर्वाचितं यत्काव्यस्यास्य आद्यन्तपाठस्य औत्सुक्यं न शमयति, प्रतिसर्ग मुत्तरोत्तरं तद्वर्धत एव। प्रसन्नगम्भीरया वैदर्भीरीत्या प्रवहति सारस्वतस्रोतसि सहृदय-पाठक मनोमीनाः सविलासं विवर्तनानि आवर्तयन्ति। अनुप्रासश्लेषोपमोत्प्रेक्षाविरोधाभासादयोऽलङ्कारास्तत्सविशेषमुज्ज्वलयन्ति भूषयन्ति च। श्यामकल्याण-कव्वाली-प्रभातीसारङ्ग-काफी-प्रभृतिरागाणां कलध्वनिस्तस्य स्वाभाविकं कलकलं द्विगुणयत् काव्यान्तरदुर्लभं दिव्यं सङ्गीतकं रचयति।महाकाव्यानुगुणा नगरवर्णन-नायिकावर्णन-विलासवर्णन-निसर्गवर्णनादयो गुणा अपिसहजत एव यथापसङ्गमत्र गुम्फिताः। सत्यपि महाकाव्येऽस्मिन् जैनाचार दर्शनाम्भोधिमथनसमुत्थनवनीतं तथा कौशलेन समालिम्पितं यथाऽत्र काव्यस्य कान्तासम्मितोपयोगिता मूर्तिमती परिद्दश्येत। न केवलमिदं दर्शनम्, धर्मश्च भगवतो जिनराजस्य मुनेः श्रावकादेर्वा मोक्षमार्गाधिष्ठितस्यैव मुखादुपदिष्टः कविना, विलासिनी ब्राह्मणी-महिषी-नर्तकीप्रभृतीनां शुद्धसांसारिकविषयलोलुपानां मुखेभ्योऽपि समुपदिष्टो व्यञ्जयति धर्म-दर्शननिर्णये सदैव प्रविवेकिना भाव्यम् आपात-दर्शन तत्र कदाचिद भ्रामकमपि सम्भवेत्। अन्यच्च- तदा ताद्दशा परमवैषयिका अपि जनाः शास्त्रदर्शनतत्त्वज्ञा आसन्निति तेषां बहुलप्रचारमपि संसूचयति। ___ इत्थं काव्यस्यास्य परिशीलनेन समस्तकाव्यसुलभसौन्दर्यस्य दर्शनेऽपि मूलतो वैराग्यस्य तेन च मोक्षलक्ष्म्या अधिगम एव कवेः प्रतिपाद्यतरं प्रमुखं तत्त्वं प्रतिभाति। यच्च श्रीमतां मुनिवराणां ज्ञानसागरदेवानां अद्य यावत् व्यापिनो जीवनस्य सर्वथा समनुरुपम्।महानुभावा इमे वाराणसेय स्याद्वादमहाविद्यालयस्य भूतपूर्वस्नातकाः बालब्रह्मचारिणः वाग्देव्याः सहजकृपापात्राः। छात्रजीवनेऽपि एभिःपरावलम्बिता नानुसृता। किमपि कार्यं कृत्वा ततो लब्धं धनं स्थानीय-छात्रालये प्रतिकररुपेण दत्वैव उशन्ति स्म। नैषधीयचरितवत् महाकाव्यनिर्माणस्य परमासमुत्कण्ठाऽऽसीत् भवतां हृदि। तदनुसारं भवद्भिः जयोदयनामकं काव्यं विरचितं चिरप्रकाशितञ्च। ततः परं मुनिवर्यैदरिदं काव्यं निर्मितम्। काव्यस्यास्य भाषानुवादोऽपि पाण्डित्यपूर्णः सविशेषं कवेर्भावाभिव्यञ्जकः। वयमस्य काव्यस्य बहुशः प्रचारं कामयमानाः कविवरस्य स्वागतं व्याहरामः। १९.११. ६६ गोविन्द नरहरि वैजापुरकरः घासीटीला वाराणसी एम.ए. न्याय-वेदान्त साहित्याचार्यः साहित्याध्यापकः 'सूर्योदय' सम्पादकः श्री स्याद्वादमहाविद्यालय काशी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002749
Book TitleSudarshanodaya Mahakavya
Original Sutra AuthorN/A
AuthorBhuramal Shastri, Hiralal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages178
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy