________________
गुरुगुणरवाकरकाच्यम् ।
निर्व्याजवृत्त्या बहुवत्सरावधि
श्रीपक्षिका प्रत्युपवासकुच यः। तत्पारणे द्वित्रिशताऽऽस्तिकावले
वात्सल्यकारी गदराजसङ्कराट् ॥२७॥ व्योमेक्षणक्ष्मामणरीतिपिण्डितं
बिम्बं स नाभेयविभोरवीभरन् । तत् प्रापयत् चार्बुदभू-भूषणे
भैमे विहारे बहुवित्तविक्रयात् ॥ २८ ॥ आसाद्य सद्यः फरमाणमुर्वरा
राजस्य यात्राकरणार्यमुत्सुकः। पर सहभिरभिः परः
शतैः खनासप्तशतैश्च शोभितम् ॥ २९ ॥ विचित्रवाधारवगर्जदम्बरं
श्रीसङ्घमादाय सुखप्रयाणकैः। श्रीभानुलक्षादिमहीशसत्कृतः
माप क्रमादर्बुदपर्वतं स तम् ॥ ३०॥ रैटङ्कलक्षव्ययतोऽनणीयसः
सकस्य मिष्टानपटादिदायिना । तस्योपरिष्टाद् घनिविस्मयावहे
महे महेभ्येन तु तेन मण्डिते ॥ ३१ ॥ तत्रेत्य यैः सोमजयाख्यप्रिमिः
सत्रेषु नेत्रेन्द्रियचन्द्रहायने । सामूर्तिरर्चा अपराध भूरिशः
प्रतिष्ठिता भौमजिनौकसि स्थिताः॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org