SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ३५ गुरुगुणरवाकरकान्यम् । यैर्गच्छराजैर्घनसङ्घसंयुतौ साकं सुधानन्दनसूरिभिश्च तौ । सिद्धाचलादौ जिनपूजनोद्यतो ग्राम क्रमादुम्बरहट्टमागतो ॥ १६ ॥ पर्यहिकातूर्यगुरुदरस्फुर तुरङ्ग्युग्यत्रजजातडम्बरम् । किं पार्थिवः कोऽपि महानिहागमद् ? __ यत्सङ्घमीक्ष्येति जनस्तदाऽवदत् ॥ १७ ॥ ताभ्यां महेभ्याद्भुतकारिणि क्षणे तत्राप्रमाणेद्रविणैर्विनिर्मिते । यैरपिता श्रीशुभरत्नवाचक स्याऽऽचार्यसम्पत् प्रमदप्रदायिनी ॥१८॥ श्रीपातशाहेः फरमाणमाप्य तौ श्रीतीर्थयात्रामथ च प्रचक्रतुः। लक्षाधिकार्यव्ययतः सविस्तरं निरन्तरायं यदुरुप्रसादतः ॥ १९ ॥ (पञ्चभिः कुलकम् ) अथ दाक्षिणात्यसं०धनराजनगराजजनितक्षणःश्रीदेवगिर्याः समुपेत्य गर्जर क्षाण्यामगण्यान्यनृणां शिरोमणिः । श्रीधन्यराजो नगराजबन्धुयुग यान् नंनमीति स्म यतीश्वरान् मुदा ॥ २० ॥ श्रीमन्महिम्मृदमहीपतेर्महोपदापदानाद् बहुमानमासदत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy