________________
श्रीसोमचारित्रगणिविरचितंतिथिवत्मतिपन्मुख्या एषु पञ्चदशाऽपरे । सप्तर्षिवदपङ्काका लान्ता द्वाविंशतिः समे ।। ८८ ॥
(चतुर्भिः कलापकम् ) आनन्ददेवा अय तीर्थदेवा धनादिदेवाः कनकादिदेवाः। श्रीचन्द्रदेवाऽमरदेवलक्ष्मीशिवाश्च संवेगशिवाः शिवाजाः।८। श्रीमचन्द्रयशःकुलयशःकमलकलशकनककलशाख्याः । विबुधा इमे वशान्ता रवय इव द्वादशोदयिनः ॥९॥
(युग्मम् ) श्रीउदयहर्षलक्ष्मीहर्षविजयहर्षहसहर्षाख्याः । शिवहर्षशीलहर्षाः सुनेमिहर्षाश्च कृतहर्षाः ॥ ९१ ॥ सज्ञानहर्षनामानस्तया कनकहर्षकः । क्षमोद्भवा अमी-पान्ता विबुधा निधिवनव ॥ ९२॥
__ (युग्मम् ) श्रीमत्संयमहंसाः सुरत्नहंसा विवेकहंसाश्च । सल्लब्धिहंसलक्ष्मीहंसाः सिद्धान्तहंसवराः॥ ९३ ॥ अथ शीलहंसनन्यादिमहंसौ शान्तिचरणहंसौ वा । श्रुतहंसाभयहसौ सुन्दरहंसश्च कुलहंसः ॥ ९४ ॥ जडध्याश्रयनिर्मुक्ता रत्नानीव चतुर्दश । सदाऽपान्ता बुधा एते सुमनःसुखदायिनः ॥ ९५ ।।
(त्रिभिर्विशेषकम् ) विबुधा आगमतीर्थास्तथा कमलधीरकनकसौभाग्यौ । लावण्यादी भूषणभद्रौ चारित्रमाणिक्यः ॥ ९६ ॥ बादिद्वादशपर्यन्तयत्यार्यासंयुतान् बुधान् । ये पर्यधापयन्नेवं शर्वोनत्रिशतीमितान् ।। ९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org