________________
गुरुगुणरत्नाकरकाव्यम्। २५ कुविद्याऽवद्यभित्साधुसत्याराधितविग्रहा। कुशाग्रीयधियः श्रीमज्जिनमाणिक्यवाचकाः ॥ ३३ ॥ जगतीजनताऽऽदेयवचोवाचंयमाश्रमाः। वाचका धर्महंसाख्या धर्महंससरःसमाः ॥ ३४ ॥ मण्डिताश्चरणच्छायाभूदमायमहात्मभिः । . उपाध्यायपदोपेताः श्रीमदागममण्डनाः ॥ ३५॥ यविधर्मकृतिप्राप्तगौरवव्रतिभूषिताः। इन्द्रहंसा उपाध्याया इन्द्रहंससमौजसः ॥ ३६॥
जन्माऽऽधकाझिस्तुमुमुक्षुक्षेमसौख्यदाः। वाचका गुणसोमाख्या मुख्या मेधाविवाग्मिनाम् ॥ ३७ ॥ तथाऽमासंपराहार्ययत्यार्या वरवाचकाः। श्रीमन्तोऽनन्तहंसाहाः सुबहागमवेदिनः ॥ ३८ ॥ भुवेनाद्भुतकृत्साधुधुर्याः श्रीसङ्घसाधवः । वाचका वाक्यचातुर्याऽऽवर्जिताय॑सभासदः॥ ३९ ॥ यद् न्यगादि मया मानमेषामन्तिपदामिह । अनुमानेन तद् न्यूनाऽधिकत्वे नैव दूषणम् ॥ ४०॥
अथ कति विबुधाभिधाःयैरथापितवेषाणामशेषाणां महात्मनाम् । संख्यां ख्यातुमलं नाहं तादृग्झसेरयोगतः॥४१॥ गीतार्थानां तथाऽप्यत्र ब्रुवे नामानि कानिचित् । कौतुकादेतदाख्याऽन्तस्थाऽष्टवर्गाक्षरक्रमात् ॥ ४२ ॥ राजतिलकशुभतिलकाऽभयतिलका अमरभुवनशिवतिलकाः। श्रीसिद्धान्तविवेका भुवनविवेकाभिधा विबुधाः ॥४३॥ एतेऽकान्ता मता भूरिभूतेष्टा अष्टविष्टपे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org