________________
गुरुगुणरवाकरकाव्यम् । वाऽपि प्रणम्य च गुरुन् अमुनेत्यमुक्ते । ते पत्तनादपि निदानपुरं तदानी
मीयुर्जिनाऽभिनमनाय तदन्तिकस्थम् ॥ ८२ ॥ तत्राम्बया बहुधनैरनया प्रणीते
कान्तक्षणे सुकृतिसन्ततिसाक्षिकं तैः । दीक्षा ददेऽस्य मुनिसुन्दरमरिपादै- रब्देऽम्बराऽम्बुनिधिवेदविधुप्रमाणे ॥ ८३ ॥ लक्ष्मीवदत्र भविकामितसातदाता
गम्भीरतादिगुणरत्नरमारतिश्च । भाव्येष सागर इवेति विभाव्य लक्ष्मीयुक्सागरेति विदधेऽस्य ततोऽभिधा तैः ॥ ८४॥
(चतुर्भिः कलापकम् ) अथैषां श्रीलक्ष्मीसागराणां गणिपण्डिववाचकपदप्राप्तिसमयकथनम्भक्त्याऽऽदरेण मुनिसुन्दरसूरिराजां
पार्थे प्रसन्नमनसां परभागभाजाम् । सिद्धान्तमुख्यसमवाङ्मयमल्पकालं
ये ह्यध्यगीपत विशुद्धधिया रसालम् ॥ ८५ ॥ सत्तकवादकविताकरणैकतानै
रुत्तार्य मानविषमाऽऽशु वचोवितानैः। दुर्वादिनां शिशुदशा अपि जीर्णदुर्गे
येऽरञ्जयभरपतीन् महिपालमुख्यान् ॥ ८६ ॥ षड्जीवकाययतनारचनापवित्रं
येऽपालयबनतिचारचयं चरित्रम् । नित्यं चिरन्तनमुमुक्षुवदप्रमत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org