________________
श्रीसोमचारित्रगणिविरचितंश्रीगौतमप्रतिमतां दधतां विधूताऽ
न्तर्विद्विषां परमशर्मजुषां च येषाम् । नामस्मृतेरपि भवेद् भविनामभीष्टा सर्वार्थसिद्धिरधुनाऽपि सुधर्मभाजाम् ॥ ६३ ॥
(सिंहोद्धताच्छन्दसा काव्याष्टकम् ) यो यो व्यधायि त्वयि मृत्युपायो- मया तवाऽयात् स स निष्फलोऽभूत् । तन्मेऽपराधं क्षमिराद् ! क्षमस्खा
ऽऽचार्यो जरीयानिति कश्चिदाख्यत् ॥ ६४ ॥ यत्कारितं मनोरमकल्पद्रुमनामपार्वजिनबिम्बम् । खीमाईश्राविकया प्रतिष्ठितं यैश्च तदतिमहत् ॥६५॥ इत्याद्यद्भुतपुण्यकारणचणाः सम्यग्गुरूद्यद्गुणाः
ये दोषैरखिलैरनाप्ततनवस्त्वोन्नत्यभृत्साधवः । ते श्रीसुन्दरदेवसुन्दरमहापट्टप्रभावावहाः
सर्वेष्टा गवि सोमसुन्दरवरा रेजुर्गणाधीश्वराः ॥६६॥ अथ श्रीमुनिसुन्दरसूरीश्वराणां सर्वगुणसंपूर्णानामपि
कियद् गुणवर्णनम्अध्यात्मकल्पद्रुमवल्गुगुर्वा
वलीविचित्राऽऽतपतिस्तवादीन् । अन्यान् बहून् ग्रेथुरजिह्ममत्या
येऽपास्तवाचस्पतिदर्पदीप्त्या ॥ ६७ ।। श्रीसूरिमन्त्रस्मरणाऽतिशेषात्
षष्ठाष्टमादेश्च तपोविशेषात् । प्रत्यक्षतामाययुरार्यपचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org