________________
गुरुगुणरवाकरकाव्यम् । ११ मालादिकप्रकरणावलिबालबोधात् । कल्याणकादिविविधस्तवमुख्यशास्त्रा
ण्यसाक्षुरक्षितशमाः खपरोपकृत्यै ।। ५७ ॥ संवेमरगगुणितत्रिसहस्रसंख्य
खाध्यायकाः प्रतिदिनं च निरीहनायाः। निद्रोदयेऽपि विदधुः स्ववपुःमसारं
ये नाऽपमार्ण्य, यतनाक विनीदृशी स्यात् १ ॥५८॥ आशादिपल्लिवसतिर्गुणराजनामा
यद्वाश्रुतेः सहवयैरकरोत् कृतीशः। देवालयैर्दशभिरस्तविमानमानै
रूकेशमौलिरतुलां विमलादियात्राम् ॥ ५९॥ गोविन्दकारितगजाङ्कजिनप्रतिष्ठा __ तारङ्गकेऽय महती गुणराजयात्रा । यो देवराजजनितो मुनिसुन्दराणां
यद्दीयमानगणधारिपदे महश्च ॥ ६॥ निर्मापितं नगरराणपुरे यदुच्चं
चैत्यं चतुर्मुखमयो धरणास्तिकेन । यद्वारकेत्र करणीयचतुष्कमेतजातं चमत्कृतिकरं चतुराजभाजाम् ॥ ६१॥
(युग्मम्) आकर्ण्य यद्गुणगणं गृहिणः प्रहृष्टा
लेखेन दुष्कृतततीरतिदूरदेशात् । विज्ञाप्य केऽपि कृतिनः परपतिमाजोऽ
प्यालोचनां जगृहुरास्यकजेन येषाम् ॥ ६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org