SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीसोमचारित्रगणिविरचितंवत्स ! त्वं मृदुसंवरोऽसि चरणाऽऽदानं विदं दुष्करम् । मुक्ष्व श्रीयुवतीमुखं भवसुखं खेतद्ग्रहे वासरो ऽस्माकं सम्मति यं प्रतीति वचनं स्नेहेन तौ पाहतुः ॥२८॥ भित्रं नास्य मनो मनागपि गिरा पित्रोरमुखन्मते र्यचातुर्यचमचरीकृतकृतिवातादितीयाकृतेः। प्रवज्योत्कलिकावतः कलिकलाकेलीप्सितपच्युतेस्तत्केन क कदाऽन्वदायि शिवदा सैतन्मयाऽऽख्यायते ॥२९॥ अत्रास्य व्रतदातृन् श्रीमुनिसुन्दरमुनीश्वरान् यावत् । अथ कथयामि कति श्रीगच्छपतीन् गौतममभृतीन् ॥ ३० ॥ तथाहियचिन्तामणिवचिनोति कृतिनां यश्चिन्तितार्थमयां श्रीपृथ्वीवसुभूतिभूस्तदुचितं चञ्चत्मभावाञ्चितः। चित्रं श्रीगणधार्यपीह विदितो निर्ग्रन्थनाथाऽग्रिमः श्रीवीरान्तिषदादिमः सुखयतात् स्वामी स नो गौतमः ॥३१॥ सेवासङ्गतशक्रमुख्यसुमनाः श्रीनन्दनाद्यातता रामैकक्षितिभूतकामितकरश्रीकल्पगच्छस्थितिः । धर्ता काञ्चन-सम्पदं गिरिगुरुमैरूपमा यः श्रितः श्रीवीरस्य स पञ्चमो गणधरः सिद्ध्यै सुधर्माऽभिधः ॥३२॥ मुक्ताष्टापदकोटिनाटकरसमेतत्कुमारीस्पृहः सर्वज्ञोऽप्यथ यः किलेह विदितः स्वामी महानन्दभूः । श्रीजम्बूमभवादिबोधनपरः पुष्यात् सुखं वः सदा वीरादन्तिमकेवली स च चतुःषष्ट्याऽभवद् वत्सरैः ॥३३॥ सूरीशमभवः प्रणाशितभवः शय्यंभवः श्रीयशोभद्रः सान्द्रयशोमयश्च विजयः सम्भूतितः मूरिराट् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy